Book Title: Sthanangsutram Part 01
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
श्रीस्थानाङ्गसूत्र
वृत्तिः
१ स्थाना&ा ध्ययने उपक्रमादीनि
तथा चाह–'अणंता गमा अणंता पजवा' इत्यादि । तथा वक्तव्यता स्वसमयेतरोभयवक्तव्यताभेदात् त्रिधा, तत्रेदं स्वसमयवक्तव्यतायामेवावतरति, सर्वाध्ययनानां तद्रूपत्वात् , तदुक्तम्-"परसैमओ उभयं वा सम्मद्दिहिस्स समओ जेणं । ता सव्वज्झयणाई ससमयवत्तब्वनिययाई ॥१॥"ति तथा अर्थाधिकारो वक्तव्यताविशेष एव, स चैकत्वविशिष्टात्मादिपदार्थप्ररूपणलक्षण इति । तथा समवतारः-प्रतिद्वारमधिकृताध्ययनसमवतारणलक्षणः, स चानुपूर्व्यादिषु लाघवार्थमुक्त एवेति न पुनरुच्यते, तथाहि-"अहुणा य समोयारो जेण समोयारियं पइद्दारं । एगट्ठाणमणुगओ सो लाघवओ ण पुण वच्चो ॥१॥" निक्षेपस्त्रिधा-ओघनामसूत्रालापकनिष्पन्नभेदात्, आह च-"भैण्णइ घेप्पइ य सुहं निक्खेवपयाणुसारओ सत्थं । ओहो नाम सुत्तं निखेत्तव्वं तओऽवस्सं ॥१॥" तत्रौधः-सामान्यमध्ययनादि नाम, उक्तञ्च"ओहो जं सामन्नं सुयाभिहाणं चउब्विहं तं च । अज्झयणं अज्झीणं आओ झवणा य पत्तेयं ॥ १॥ नामादि चउब्भेयं वन्नेऊणं सुआणुसारेणं । ऐगट्ठाणं जोजं चउसुपि कमेण भावेसुं ॥२॥” तत्राध्यात्म-मनस्तत्र शुभे अयनं-गमनं अर्थादात्मनो भवति यस्मादध्यात्मशब्दवाच्यस्य वा मनसः शुभस्य आनयनमात्मनि यतो भवति बोधादीनां वाऽधि
१परसमय उभयं वा सम्यग्दृष्टेः खसमयो येन । ततः सर्वाण्यध्ययनानि खसमयवक्तव्यतानियतानि ॥१॥ २ अधुना च समवतारो येन समवतारितं [५] प्रतिद्वारम् । एकस्थानेऽनुगतः स लाघवतो न पुनर्वाच्य इति ॥१॥ (सामइयं सोऽणुगओ लाघवओ णो पुणो वचो वि. भा०) ३ भण्यते गृह्यते च सुखं निक्षेपप-*
दानुसारतः शास्त्रम् । ओघो नाम सूत्रं निक्षेप्तव्यं ततोऽवश्यम् ॥ १॥ ४ ओघो यत्सामान्यं सूत्राभिधानं चतुर्विधं तच्च । अध्ययनमक्षीणमायः क्षपणा च प्रत्येकम् | &॥१॥ नामादि चतुर्भेदं वर्णयित्वा श्रुतानुसारेण । एकस्थानमायोज्यं चतुर्वपि क्रमेण भावेषु ॥ २॥ ५ सामाइयमा० वि० भा०
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 580