Book Title: Siddhanta Kaumudi Bal Manorama
Author(s): Gopal Shastri Nene, Sadashiv Shastri Joshi
Publisher: Jaykrishnadas Haridas Gupta

View full book text
Previous | Next

Page 15
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदी [सज्ञा स्य च सञ्ज्ञा स्यात् । इति हल्सझायाम् । 'हलन्त्यम्' (सू.१)। उपदेशेऽन्त्यं हल् इत्स्यात् । उपदेश आयोच्चारणम् । ततः 'अण्' 'अच्' इत्यादिसज्ञासिद्धौ । ३। उपदेशेऽजनुनासिक इत् । १।३।२ उपदेशेऽनुनासिकोआदिः स्वस्य आदेः सज्ञेत्येव लभ्येत, उक्तरीत्या स्वशब्देन अन्त्यस्य परामर्शासम्भवात् । ततश्च उण इत्युकारस्य सझेति पर्यवस्येत् । तत्र एकस्य वर्णस्य वर्णद्वयात्मकसज्ञाविधानं व्यर्थमापधेत, गौरवात् , प्रत्याहाराणा व्यवहारलाघवार्थत्वात् । अतो मध्यमसत्त्व एवात्र आद्यन्तशब्दाविति ताभ्यां मध्यगानामिति लभ्यते। इतेति किम् ? अम्प्रत्याहारः अमडणेति मकारेण मा भूत् । नचैवमपि सुट्प्रत्याहारःटा इति टकारेण किं न स्यात् , टान्तसमुदायापेक्षया तस्य अन्त्यत्वादिति वाच्यम् । प्रथमातिक्रमणे कारणाभावेन सुटप्रत्याहारस्य औटष्टकारेणैव ग्राह्यत्वात् । उक्तं च जैमनिना-'प्रथमं वा नियम्येत कारणस्यानतिक्रमात् ।। ( पू. मी. .११ । ४३ ) । इति । विस्तरभयाद्विरम्यते । इति हत्संज्ञायामिति । हल्सूत्रे लकारस्य हलन्त्यमित्यावृत्त. प्रथमसूत्रेण इत्सज्ञायां सत्याम् , आदिरन्त्येनेति हल्सज्ञासिद्धौ चतुर्दशसूत्र्यामन्त्यणकारादिवर्णानां हल्त्वं सिद्धमित्यर्थः। ततः किमित्यत आह-हलन्त्यम् । आवृत्तयोद्वितीयं सूत्रमेतत्। हल् अन्त्यमि. ति छेदः । हल्शब्दो नपुंसकलिङ्गोऽप्यस्ति, अन्त्यमिति नपुंसकसामानाधिकरण्यात् । "उपदेशेऽजनुनासिक इत्" इति पूर्वसूत्रादुपदेश इति इदिति चानुवर्तते। तदाहउपदेशेऽन्त्यमित्यादिना। धातुप्रातिपदिकनिपातप्रत्याहारसूत्रप्रत्ययादेशागमानामन्त्यमिति भाष्यम् । अथ कोऽयमुपदेशो नाम ? तत्राह-उपदेश आद्योच्चारणमिति । उपशब्द आद्यर्थकः । दिशिरुच्चारणक्रियायाम् । भावे घनिति भावः । एतच्च "आदेच उपदेशे” इत्यादिसूत्रे भाष्ये स्पष्टम् । धातुसूत्रगणोणादिवाक्यलिङ्गानुशासनम् । आगमप्रत्ययादेशा उपदेशाः प्रकीर्तिताः । . इति प्राचीनकारिका तु प्रौढमनोरमायां बहुधा दूषिता । उपदेशे किम्-'इदम. स्थमुः' इति थमुप्रत्यये उकारस्योच्चारणार्थस्य निवृत्तौ मकारस्य प्रत्ययान्तत्वेऽपि इत्सज्ञा मा भूत् । तदेवं हलन्त्यमिति आवृत्तद्वितीयसूत्रेण चतुर्दशसूत्र्याम् अन्त्यणकारादिवर्णानाम् इत्सज्ञा सिद्धेति स्थितम् । ततः किमित्यत आह-ततः अण् अच इत्यादिसन्जासिद्धाविति । ततः णकारादीनामित्सज्ञासिद्धयनन्तरं आदिरन्त्ये. नेत्यणादिसज्ञा सिद्धेत्यर्थः। लणसूत्रे अकारश्चेति प्रतिज्ञातम् । तस्य अकारस्य. अनन्त्यत्वादहल्त्वाच्च हलन्त्यमिति इत्सज्ञायामप्राप्तायां तत्प्रापर्क सूत्रमाह-उपदेशे । सज्ञाप्रस्तावात्सझेति लभ्यते। तदाह-उपदेशे अनुनासिक इत्यादिना। सूत्रे For Private and Personal Use Only

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 1060