Book Title: Siddhanta Kaumudi Bal Manorama
Author(s): Gopal Shastri Nene, Sadashiv Shastri Joshi
Publisher: Jaykrishnadas Haridas Gupta
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १]
बालमनोरमासहिता ।
ताल्वादिषु
।
त्तादिभेदेन त्रिधा। (५) उच्चैरुदात्तः । १ । २ । २६ ॥ सभागेषु स्थानेषूर्ध्वभागे निष्पन्नोऽजुदात्तसंज्ञः स्यात् । आ ये । ( ६ ) नीचैरनुदात्तः । १ । २ । ३० ॥ स्पष्टम् । अर्वाङ् । (७) समाहारः स्वरितः । १ । २ । ३१ ॥ उदात्तत्वानुदात्तत्वे वर्णधर्मौ समाहियेते यस्मिन्सोऽच् स्वरितसञ्ज्ञः स्यात् । ( ८ ) तस्यादितः उदात्तमर्धहस्वम् | १ | २ । ३२ ।। हस्वग्रहणमतन्त्रम् । स्वरितस्यादितोऽर्धमुदात्तं बोध्यम् ।
1
ततश्व
स्वरितत्वेन च धर्मविशेषेण त्रिधा त्रिभिः प्रकारैर्वर्तत इत्यर्थः । उदात्तसज्ञामाहउच्चैरुदात्तः। नादधर्मविशेषः उच्चैस्त्वं नेह विवक्षितम्, उपांशुच्चार्यमाणे अव्याप्तेः । किन्तु उच्चैश्शब्दः अधिकरणशक्तिप्रधानः ऊर्ध्वभागे इत्यर्थे वर्तते । ऊर्ध्वावयवस्य चावयवव्यपेक्षायां तालुकण्ठादिवर्णाभिव्यक्तिस्थानानामित्यर्थाल्लभ्यते । ऊकालोऽजिति सूत्रादजित्यनुवर्तते तदेतदाह - तात्वादिष्वित्यादिना । सभागेष्विति । तावादीनां सावयवत्वकथनम् ऊर्ध्वभागे इत्यस्योपपादनार्थम्, तेषाम् अखण्डत्वे 'भागे इत्यनुपपत्तेः । उदात्तमुदाहरति-आ ये इति । 'आ ये मित्रावरुणा' इत्यचि आकार एकारश्च उदात्त इत्यर्थः । अनुदात्तसज्ञामाह - नीचैरनुदात्तः । स्पष्टमिति । उक्तरीत्या ताल्वादिषु अधोभागे निष्पन्नोऽच् अनुदात्तसञ्ज्ञः स्यादिति स्पष्टार्थकमित्यर्थः । अर्वाङ् इति । 'अर्वाङ्ग यज्ञस्संक्राम' इत्यृचि आद्यः अकारः अनुदात्त इत्यर्थः । अथ स्वरितसञ्ज्ञामाह-- समाहारः स्वरितः । पूर्वसूत्राभ्याम् उदात्त इति अनुदात्त इति चानुवर्तते । ऊकालोऽजित्यस्मादजित्यनुवर्तते । उदात्त: अनुदात्तश्च अच् समाहियमाणः स्वरित इत्यर्थः प्रतीयते । एवं सति वर्णद्वयस्य स्वरितसञ्ज्ञा स्यात्, न त्वेकस्य । अतो नैवमर्थः । किन्तु उदात्तानुदात्तपदे अनुवृत्ते धर्मप्रधाने षष्ट्यन्ततया च विपरिणम्येते । यत्र समाहरणं स समाहारः । अधिकरणे घञ् । ततश्च उदात्तत्वानुदात्तत्वयोर्धर्मयोर्यस्मिन्नचि मेलनं सोऽच् स्वरतसञ्ज्ञक इत्यर्थः । फलितमाह - उदात्तत्वानुदात्तत्वे इत्यादिना । ननु उदात्तत्वानुदातत्वयोरकस्मिन्नपि मेलने कस्मिन्भागे उदात्तत्वस्य समावेशः, कस्मिन्भागे अनुदात्तत्वस्य समावेश इत्यत आह-तस्यादितः । तस्य स्वरितस्य आदितः पूर्वभागे अर्धस्वमुदात्तम् इत्यर्थः प्रतीयते । एवं सति दीर्घस्वरिते इयं व्यवस्था न स्यात् । अत आह— हस्वग्रहणमतन्त्रमिति । तन्त्रं प्रधानम् । 'तन्त्रं प्रधाने सिद्धान्ते' इति कोशः । न विद्यते तन्त्रं वाच्यार्थलक्षणं प्रधानं यस्य तत् अतन्त्रं अविवक्षितार्थकमित्यर्थः । ह्रस्वग्रहणं न कर्तव्यमिति यावत् । दीर्घस्वरितेऽप्युत्तरभागस्य वेदे अनुदात्तत्वदर्शनादिति भावः । ततश्च फलितमाह-स्वरितस्यादितोऽर्धमुदात्त
1
For Private and Personal Use Only
Loading... Page Navigation 1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 1060