Book Title: Siddh Hemchandra Vyakaranam
Author(s): Himanshuvijay
Publisher: Anandji Kalyanji Pedhi

View full book text
Previous | Next

Page 15
________________ प्रिस्तावना सिद्धहेमचन्द्रव्याकरणम् । __ अथ नैकान् पुस्तकान् आलोच्य पाठकानां पुरस्तादुपढौक्यमानहैमव्याकरणविषये वयमत्र किश्चिल्लिखिंष्यामः। वैक्रमद्वादशशताब्दयां चौलुक्यवंशोत्पन्नः सिद्धराजजयसिंह नामा प्रतापी गूर्जरभूपालो बभूव । यशोवर्मउत्पत्तिः। नामानं मालवदेशस्य राजानं स विजिग्ये । यदा सिद्धराजः पाटणाऽऽख्यं स्वनगरं प्राप तदा विजयिनं तं नैके बुधास्तुष्टुवुः। श्रीहेमचन्द्रनामा जैनाचार्यस्तदानीं सुधानामग्रगण्योऽभूत् । सोऽपि “भूमि कामगवि...." इत्याधनद्यवपद्यतस्तस्मै आशिर्ष ददौ । तन्नव्यमव्यकाव्यगुणेन चमत्कृतो विद्योत्ते. जको भूपो हेमचन्द्राचार्येऽतितरां भक्तिं बभार । तदाप्रभृति स स्वह र्येऽसकदाचार्यमामन्त्रयामास । - उअयनीग्रन्थमाण्डागारत आगतपुस्तकेष्वन्यतमं भोजेन राज्ञा कृतं 'सरस्वतीकण्ठाभरणं' व्याकरणमेकदा सिद्धराजो ददर्श, तेन विद्वद्यशोऽमिलापियो मालवशनोस्तस्य, चेतस्यपि नूतनं व्याकरणमुत्पादयितुं स्पृहाऽऽविर्भूता । किश्च तदानीं गूर्जरे कलापस्य-कातन्त्रस्य प्रचुरः प्रचार आसीत् । परन्तु तेन छात्राणां सम्पूर्णा समीचीना च व्युत्पत्ति व जायते स्म । शाकटायनपाणिनीयादोन्यपि लक्षणानि क्लिष्टत्वदुःश्रवत्वादीहेतुभिर्वैरस्यभाजनानि बभूवुः, तेन साङ्गपूर्णमपि सरलं सुश्रवं नवं व्याकरणं राज्ञा लोकैश्वाकाक्ष्यत । १. प्रभाचन्द्रसूरिकृतप्रभावकचरित्रगतहेमचन्द्रस्चिरित्रे ७०-१११ पयान्तं विस्तरात् प्रस्तुतम्याकरणविषयोल्लेखोऽस्ति । प्रबन्धचिन्तामणौ तु समासादस्ति । “भूमि कामगवि" इतिपर्य हैमव्याकरणप्रशस्तौ दृश्यते, सा चात्र हितो परिशिो सम्पादिताऽस्ति । , नासा

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 1054