Book Title: Siddh Hemchandra Vyakaranam
Author(s): Himanshuvijay
Publisher: Anandji Kalyanji Pedhi

View full book text
Previous | Next

Page 19
________________ .. [प्रस्तावना । क्यवंशभूपालानां विस्तरादितिवृत्तं च वणितमतो द्वयाश्रयकाव्यमिति कथ्यते। अस्य व्याकरणस्य जयसिंहाख्यगूर्जरराजप्रार्थनया तद्दत्तपुस्त कादिसाधनसाहाय्येन निर्माणात् व्याकर- प्रशस्तिः। णकारः श्रीहेमाचार्यः प्रतिपादान्तमेकैकेन पद्येन: पश्चिमपादान्ते च चतुर्भिः पद्यः क्रमश: सप्तानां चौलुक्यभूपानां प्रशस्ति रचयामास । मालवेशं विजित्य स्वराजधानीनगरमागमनाऽनन्तरं गूर्जरेशि . तुहेमचन्द्रेण समं समागमोऽजनि । तदनरचनासमयः। न्तरमाचार्यहेमचन्द्रेण प्रस्तुतं व्याकरणं निर्मा यीतीदं तु सर्वेऽपि निर्विवादं मन्यन्ते । गूर्जरेशितुः स नगरप्रवेशस्तु विक्रमसं० ११९३ वर्षात् पूर्व संजात इति सम्भाव्यते । तत्पश्चात् श्रीहेमचन्द्रसरिणा व्याकरणमारब्धम् । प्रबन्धचिन्तामणिमतेनैकवर्षात्मकः कालः सपादलक्षश्लोकमितस्यास्य हैमव्याकरणस्य निर्माणे व्यतीतः । इयं च गणना हैमन्यासश्लोकगणनासहितैव भवितव्या, अन्यथा नेदृशी संख्या संभवति । हमसूत्रस्य १।१।२६ हैमन्यासे च स्वोपज्ञालङ्कारचूडामणेः (काव्यानुशानस्य ) उल्लेखोऽस्ति, तेन हैमन्यासात् पूर्वमेव हैमालङ्कारचूडामणेनिर्माणं जातमिति निश्चितम् । अलङ्कारचूडामणिश्व १ संस्कृतद्वयाश्रयकाव्यं विंशतिसर्गात्मक; प्राकृतं चाष्टसर्गात्मकमस्ति । प्रथम गीर्वाणवाण्यां; द्वितीय च प्राकृतादिषडभाषाकाव्यदृब्धम् । व्याकरणमिति. हासश्चेतिद्वयाधारवत्त्वा दनयोद्वर्याश्रयविशेषणमन्वर्थमस्ति । एतत् काव्यद्वयमपि Bombay Sanskrit and prakrit Series इतिनाम्न्या बंबइराज्यसंस्थया प्रकाशितम् । २ अस्याः प्रशस्ते. कानिचित् पद्यानि प्रबन्धचिन्तामणाबुद्धतानि सन्ति । ३ प्र. चि० सिद्धराजप्रबन्धे पृ. ६० । . ४ " यदाह स्वोपज्ञालङ्कारचूडामणौ-“वक्त्रादिवैशिष्टयादर्थस्यापि मुख्यामुख्यात्मनो व्यजकत्वम्" । हैमबृहन्यासः, पृ. ३५. पं. भगवानदाससम्पावितः ।

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 1054