________________
.. [प्रस्तावना । क्यवंशभूपालानां विस्तरादितिवृत्तं च वणितमतो द्वयाश्रयकाव्यमिति कथ्यते। अस्य व्याकरणस्य जयसिंहाख्यगूर्जरराजप्रार्थनया तद्दत्तपुस्त
कादिसाधनसाहाय्येन निर्माणात् व्याकर- प्रशस्तिः। णकारः श्रीहेमाचार्यः प्रतिपादान्तमेकैकेन
पद्येन: पश्चिमपादान्ते च चतुर्भिः पद्यः क्रमश: सप्तानां चौलुक्यभूपानां प्रशस्ति रचयामास । मालवेशं विजित्य स्वराजधानीनगरमागमनाऽनन्तरं गूर्जरेशि
. तुहेमचन्द्रेण समं समागमोऽजनि । तदनरचनासमयः। न्तरमाचार्यहेमचन्द्रेण प्रस्तुतं व्याकरणं निर्मा
यीतीदं तु सर्वेऽपि निर्विवादं मन्यन्ते । गूर्जरेशितुः स नगरप्रवेशस्तु विक्रमसं० ११९३ वर्षात् पूर्व संजात इति सम्भाव्यते । तत्पश्चात् श्रीहेमचन्द्रसरिणा व्याकरणमारब्धम् ।
प्रबन्धचिन्तामणिमतेनैकवर्षात्मकः कालः सपादलक्षश्लोकमितस्यास्य हैमव्याकरणस्य निर्माणे व्यतीतः । इयं च गणना हैमन्यासश्लोकगणनासहितैव भवितव्या, अन्यथा नेदृशी संख्या संभवति । हमसूत्रस्य १।१।२६ हैमन्यासे च स्वोपज्ञालङ्कारचूडामणेः (काव्यानुशानस्य ) उल्लेखोऽस्ति, तेन हैमन्यासात् पूर्वमेव हैमालङ्कारचूडामणेनिर्माणं जातमिति निश्चितम् । अलङ्कारचूडामणिश्व
१ संस्कृतद्वयाश्रयकाव्यं विंशतिसर्गात्मक; प्राकृतं चाष्टसर्गात्मकमस्ति । प्रथम गीर्वाणवाण्यां; द्वितीय च प्राकृतादिषडभाषाकाव्यदृब्धम् । व्याकरणमिति. हासश्चेतिद्वयाधारवत्त्वा दनयोद्वर्याश्रयविशेषणमन्वर्थमस्ति । एतत् काव्यद्वयमपि Bombay Sanskrit and prakrit Series इतिनाम्न्या बंबइराज्यसंस्थया प्रकाशितम् ।
२ अस्याः प्रशस्ते. कानिचित् पद्यानि प्रबन्धचिन्तामणाबुद्धतानि सन्ति ।
३ प्र. चि० सिद्धराजप्रबन्धे पृ. ६० । . ४ " यदाह स्वोपज्ञालङ्कारचूडामणौ-“वक्त्रादिवैशिष्टयादर्थस्यापि मुख्यामुख्यात्मनो व्यजकत्वम्" । हैमबृहन्यासः, पृ. ३५. पं. भगवानदाससम्पावितः ।