SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ सप्तभाषाणां बाकरणम् ] [.५ वहमस्ति । देशमाषाणां जनन्या अपभ्रंशभाषाया विशदं व्याकरणं : देशीनाममाला' चेतिद्वयं तु न हेमचन्द्रादन्यः कश्चित् प्राचीनो चीनो वा विद्वान् निबद्धवानिति सम्प्रति मनीषिणो मन्यन्ते । __ यथा किल पाणिनिना महर्षिणा लौकिकव्याकरणाद् अनन्तरं वैदिकसाहित्यपरिच्छेदाय प्रान्ते वैदिकप्रक्रिया व्याचक्रे तथा हेमचन्द्रेण महर्षिणाऽष्टमाध्याये जैनागमव्युत्पत्तये समासाद् आर्षभाषा यथाप्रयोग व्याचक्रे । अत्र पुस्तके तु अस्माभिः सस्कृतभाषायाः साधकाः सप्तैव अध्यायाः सम्पादिताः। प्राकृतादिभाषासाधकोऽष्ट. मोऽध्यायस्तु पैरैरसकृत् सम्पादितः सुलभश्च वर्त्ततेऽतो नात्र संपादितः । दिदृक्षुभिरन्यतो द्रष्टव्यः। यथा किल पाणिनीयसूत्रसिद्धिमुद्दिश्य रामचरितापरनाम भट्टि . काव्यं निष्पन्न; तथाऽचार्यहेमचन्द्रेण स्व. व्याकरणस्य व्याकरणसूत्रसिद्धये सरलललितं काव्यद्वयं काव्यद्वयम् । निर्मायि । सप्तध्यायसूत्राणां सिद्धयर्थं 'संस्कृतद्वयाश्रयकाव्यम् ' अष्टमाध्याय. प्राकृतादिभाषासाधनाथं च 'प्राकृतद्वथाश्रयकाव्यं (कुमारपालघरतम् ) इतिनामकं काव्यद्वयं हेमचन्द्रपिरेव चक्रिवान् । अत्र भट्टिकाव्यादप्ययं विशेषो यत् क्रमशोऽविकलहैमव्याकरसूत्रप्रयोगाः काव्यद्वयेत्र निबद्धाः, आ मूलराजात् कुमारपालपर्यन्तं चौलु १ अयं देश्यशब्दानां कोश: । 'रत्नावली' इत्यस्यैव नामान्तरमस्ति (दे० ना-८-७७ ) । अयं ग्रन्थः सवृत्तिः पं. मुरलीधरबेनर्जीतिमहाशयेन सम्पादितः, प्रकाशितश्च ईस्वीसन् १९३१ वर्षे कलकत्ता राजकीयविद्यालयेन । . २ जैनमूलसूत्राणां भाषाया आर्ष-अर्धमागधी-ऋषिभाषितेत्यादीनि नामानि सन्ति। ३ जर्मनीयपं० पिश्चल (Dr. R. Pischel ) इतिमहाशयेन, तथा P. L. Vaidya पण्डितेनाऽयमष्टमाध्यायः सम्पादितः ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy