________________
रचनासमयः ]
[ ७
हेमचन्द्राचार्येणं व्याकरणरचनाऽनन्तरं निर्मायीति हेमाचार्य एव तत्रोल्लिलेखे, तस्माद् ' पूर्व हेमाचार्यः सूत्रवृत्याद्यात्मकं व्याकरणमूलपञ्चाङ्गभांग विक्रमसं० १९९३ वर्षे व्यरचत, न्यासादीन् टीकाग्रन्थास्तु पथा जग्रन्थ ' इत्यस्माकं मतमस्ति । प्रबन्धचिन्तामणिलिखितैकवर्षात्मकः कोलो व्याकरणमूलपञ्चाङ्गनिर्माणस्यैव संभवति । जर्मनदेशीय बुह्नराख्यः पण्डित ( DR. G. BUHLER. ) अस्प हैमव्याकरणस्य निर्माण वर्षत्रयमितं कालं कल्पते, स कालो वि० सं० १९९७ कल्प्यते तेन ।
हेमचन्द्राचार्यात् प्राग् जैनन्द्रशाकटायनबुद्धिसागरादीनि जैनानि, पाणिनीयादीनि चाऽजैनानि व्याकरणानि तुलना । विद्यन्ते स्म । पूर्वग्रन्थस्य प्रतिच्छाया न्यूनाधिक्यरूपेणोत्तरग्रन्थेषु प्रायः पतति । व्याक
"
रणे तु गौरवं दोषत्वेन मतम् शब्दसाधका नियमाः प्रयोगाश्च सर्वत्र सदा च समाना एव प्रायेण स्युरतः सर्वव्याकरणेषु प्रतिबिम्बं विशेषेण संभवि । तत्र मूलसूत्रेषु शाकटायनकृतानां सूत्राणां विशेषेण प्रति
56 शब्दानुशासनेऽस्माभिः साध्व्यो वाचो विवेचिताः । तासामिदान्तं काव्यत्वं यथावदनुशिष्यते ॥ २ ॥ "
हैमकाव्यानुशासनं पृ० २ । २ The Life of Jain monk Hemchandra ( हेमचन्द्राचार्यचरित्रे ) इस्वीसन् १८८९ वर्षे जर्मनीभाषायां लिखिते ।
३ अयं जैनाचार्य आसीत् । एतत्कृतव्याकरणस्य रचनासमयः प्रो० काशीनाथ बापुजी पाठकमतेन वि० सं० ८५० अस्ति । स्वसूत्रोपरि तेनैव शाकटायनेन अमोघवृत्तिविरचिता । अस्य जैनत्वादिविषये प्रो० गुस्ताव - ओपर्ट ( P. Gustav Oppert ) इतिविदुषा इस्वीखन् १८९३ वर्षे निबन्धो लिलिखे
व्योर्लघुप्रयत्नतरः शाकटायनस्य पा० ८-३-१८ ) इवि पाणिनि लिखितादयमाचार्यों भिन्नोऽर्वाचीनश्च वेद्यः ।
""
""