________________
प्रिस्तावना सिद्धहेमचन्द्रव्याकरणम् । __ अथ नैकान् पुस्तकान् आलोच्य पाठकानां पुरस्तादुपढौक्यमानहैमव्याकरणविषये वयमत्र किश्चिल्लिखिंष्यामः। वैक्रमद्वादशशताब्दयां चौलुक्यवंशोत्पन्नः सिद्धराजजयसिंह
नामा प्रतापी गूर्जरभूपालो बभूव । यशोवर्मउत्पत्तिः। नामानं मालवदेशस्य राजानं स विजिग्ये । यदा
सिद्धराजः पाटणाऽऽख्यं स्वनगरं प्राप तदा विजयिनं तं नैके बुधास्तुष्टुवुः। श्रीहेमचन्द्रनामा जैनाचार्यस्तदानीं सुधानामग्रगण्योऽभूत् । सोऽपि “भूमि कामगवि...." इत्याधनद्यवपद्यतस्तस्मै आशिर्ष ददौ । तन्नव्यमव्यकाव्यगुणेन चमत्कृतो विद्योत्ते. जको भूपो हेमचन्द्राचार्येऽतितरां भक्तिं बभार । तदाप्रभृति स स्वह
र्येऽसकदाचार्यमामन्त्रयामास । - उअयनीग्रन्थमाण्डागारत आगतपुस्तकेष्वन्यतमं भोजेन राज्ञा कृतं 'सरस्वतीकण्ठाभरणं' व्याकरणमेकदा सिद्धराजो ददर्श, तेन विद्वद्यशोऽमिलापियो मालवशनोस्तस्य, चेतस्यपि नूतनं व्याकरणमुत्पादयितुं स्पृहाऽऽविर्भूता ।
किश्च तदानीं गूर्जरे कलापस्य-कातन्त्रस्य प्रचुरः प्रचार आसीत् । परन्तु तेन छात्राणां सम्पूर्णा समीचीना च व्युत्पत्ति व जायते स्म । शाकटायनपाणिनीयादोन्यपि लक्षणानि क्लिष्टत्वदुःश्रवत्वादीहेतुभिर्वैरस्यभाजनानि बभूवुः, तेन साङ्गपूर्णमपि सरलं सुश्रवं नवं व्याकरणं राज्ञा लोकैश्वाकाक्ष्यत । १. प्रभाचन्द्रसूरिकृतप्रभावकचरित्रगतहेमचन्द्रस्चिरित्रे ७०-१११ पयान्तं विस्तरात् प्रस्तुतम्याकरणविषयोल्लेखोऽस्ति । प्रबन्धचिन्तामणौ तु समासादस्ति । “भूमि कामगवि" इतिपर्य हैमव्याकरणप्रशस्तौ दृश्यते, सा चात्र हितो परिशिो सम्पादिताऽस्ति ।
,
नासा