SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ सिद्धहेमचन्द्रव्याकरणोत्पत्तिः ] 'इत्थमेकतो भोजराजकीर्तिजित्वरी कीर्तिमवाप्तुं स्पृहा, अपरतश्च सम्पूर्णसरलसुन्दरव्याकरणन्यूनतामपाकर्तुमीहा' इति रजासत्त्वगुणं कारणद्वयं नृत्नव्याकरणकरणे गूर्जरेन्द्रं प्रेरयामास । राजा नव्यव्याकरणनिर्माणस्वरूपामात्मीयामिच्छां गूर्जरविदुपामग्रे निवेदयामास । एतत्कार्यनिर्वाहे क्षमं हेमचन्द्राचार्यमेव सर्वे बुधाः सूचितवन्तः ततो राजा भक्तिभराद् हेमचन्द्रसरि नवीनव्या करणकरणे प्रार्थयाश्चक्रे । आजन्म साहित्यनिर्माणकव्रतेन व्रतीन्द्रहेमचन्द्रेण सिद्धराजेन्द्रस्याऽभ्यर्थना सानन्दमङ्गीचक्रे, तेन राजा तुतोष। कश्मीरादिदेशतो राजाऽऽज्ञया तत्प्रधानपुरुषैाकरणपुस्तकान्यानीयाचार्याय समर्पितानि । विद्वद्वर्यों हेमचन्द्राचार्योऽप्रतिमया स्वया प्रतिभया सर्वांङ्गपूर्ण तूर्णं सरलसुश्रवं नवं व्याकरणं व्यररचत् । प्रस्तुतं शब्दानुशासन (व्याकरण) सिद्धराजाऽभ्यर्थनया हेम । चन्द्रेण विरचितं तस्माद् एतस्य 'सिद्धहेमचकरणम्। न्द्रशन्दानुशासनम्' इति नामधेयं दत्तम् । अत्र हैमव्याकरणेऽष्टौ अध्यायाः सन्ति । प्रत्येकाभ्यायं चत्वारः पादा विद्यन्ते, तेन सम्पिण्डिताः पादा मानम्। ३२ भवन्ति । तेषु ४६८५ सूत्राणि; - उणादीनां च १००६ सूत्राणि सन्ति । सर्वेषां सूत्राणां सङ्खथा तु ५६९१ भवति । एतेषु सप्ताभ्यायपर्यन्तं सस्कृतभाषाव्याकरणमस्ति । अष्टमाध्याये चेतरभाषाणां विद्यते । संस्कृतव्याकरणसूत्राणां सङ्ख्या ३५६६, प्राकृतादिव्याकरणानां चाष्टमाध्याये सूत्रगणना १११९ विद्यते । १ क्वचित् प्राचीनप्रतौ एवमस्ति-" सिद्धराजेन कारितत्वात् 'सिद्धम् ' हेमचन्द्रेण कृतत्वाद् 'हेमचन्द्रम् ' " Systems of Sanskrit Grammar P. 75.
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy