________________
प्रथमसंस्करणस्य प्रस्ताव ना.
व्याकरणे किल चिरकालादद्यावधि निरवद्या प्रीतिर्विद्यते विद्यावताम् । व्याकरणं हि न केवलं भाषापरिच्छेदकमेव किन्विदं शास्त्र स्वर्गापवर्गप्रदमपीति ‘पण्डितमण्डली मन्यते, अतोऽस्य भयिष्ठा प्रतिष्ठा प्रचुरः प्रचारश्च विबुधैर्यधायि । वैदिकाच वेदस्व प्रधानमङ्गमामनन्तीदमै ।
एतत्तु सुस्पष्टं यद् 'वाचा व्यवहारः कर्तव्यस्तर्हि वाक्युद्धिविधायकं व्याकरणमवश्यमध्येतव्यम् 'अन्यथा लोकेऽनोत्पत्तिकादासश्च स्याद् , अतः परम्शतैः पण्डितैर्वाङ्मलप्रक्षालनाय भूयासो व्याकरणग्रन्थाश्चक्रिरे।
१. नाकमिष्टसुख यान्ति सुयुक्तैर्वद्धवाग्ररथैः । पाणिनीयदर्शनम् । विविज्ञा.
नामसाधुस्वमिर्मुक्तानां शन्दानां प्रयुक्तः सम्यग्ज्ञानलक्षणा सिद्धिभवति । ...
तद्वारेण च.निःश्रेयस परमिति हैमवृहन्न्यासः ।१।१।२।पृ.१०। २. भासन ब्रह्मणस्तस्य तपसामुत्तमं तपः ।
प्रथमं छन्दसामङ्गमाहुाकरणं बुधाः ॥ वाक्यपदीये ।।१। ३. पाणीप्रयोगरूपो हि. व्यवहारोऽत्र दृश्यते । . . . . . . . . . . . 'तस्माद् वाणीप्रयोगस्य साधि व्याकरणं पठेत् ॥ .
अस्माभिः सिद्धान्तरनिकाप्रस्तावनायो व्याकरणस्य महत्वं निपुणं लिखित- . मतो नात्र पुनलिख्यते ।।