Book Title: Siddh Hemchandra Vyakaranam
Author(s): Himanshuvijay
Publisher: Anandji Kalyanji Pedhi
View full book text
________________
सिद्धहेमचन्द्रव्याकरणोत्पत्तिः ]
'इत्थमेकतो भोजराजकीर्तिजित्वरी कीर्तिमवाप्तुं स्पृहा, अपरतश्च सम्पूर्णसरलसुन्दरव्याकरणन्यूनतामपाकर्तुमीहा' इति रजासत्त्वगुणं कारणद्वयं नृत्नव्याकरणकरणे गूर्जरेन्द्रं प्रेरयामास ।
राजा नव्यव्याकरणनिर्माणस्वरूपामात्मीयामिच्छां गूर्जरविदुपामग्रे निवेदयामास । एतत्कार्यनिर्वाहे क्षमं हेमचन्द्राचार्यमेव सर्वे बुधाः सूचितवन्तः ततो राजा भक्तिभराद् हेमचन्द्रसरि नवीनव्या करणकरणे प्रार्थयाश्चक्रे । आजन्म साहित्यनिर्माणकव्रतेन व्रतीन्द्रहेमचन्द्रेण सिद्धराजेन्द्रस्याऽभ्यर्थना सानन्दमङ्गीचक्रे, तेन राजा तुतोष।
कश्मीरादिदेशतो राजाऽऽज्ञया तत्प्रधानपुरुषैाकरणपुस्तकान्यानीयाचार्याय समर्पितानि । विद्वद्वर्यों हेमचन्द्राचार्योऽप्रतिमया स्वया प्रतिभया सर्वांङ्गपूर्ण तूर्णं सरलसुश्रवं नवं व्याकरणं व्यररचत् । प्रस्तुतं शब्दानुशासन (व्याकरण) सिद्धराजाऽभ्यर्थनया हेम
। चन्द्रेण विरचितं तस्माद् एतस्य 'सिद्धहेमचकरणम्। न्द्रशन्दानुशासनम्' इति नामधेयं दत्तम् । अत्र हैमव्याकरणेऽष्टौ अध्यायाः सन्ति । प्रत्येकाभ्यायं चत्वारः
पादा विद्यन्ते, तेन सम्पिण्डिताः पादा मानम्। ३२ भवन्ति । तेषु ४६८५ सूत्राणि;
- उणादीनां च १००६ सूत्राणि सन्ति । सर्वेषां सूत्राणां सङ्खथा तु ५६९१ भवति । एतेषु सप्ताभ्यायपर्यन्तं सस्कृतभाषाव्याकरणमस्ति । अष्टमाध्याये चेतरभाषाणां विद्यते । संस्कृतव्याकरणसूत्राणां सङ्ख्या ३५६६, प्राकृतादिव्याकरणानां चाष्टमाध्याये सूत्रगणना १११९ विद्यते ।
१ क्वचित् प्राचीनप्रतौ एवमस्ति-" सिद्धराजेन कारितत्वात् 'सिद्धम् ' हेमचन्द्रेण कृतत्वाद् 'हेमचन्द्रम् ' " Systems of Sanskrit Grammar P. 75.
Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 1054