Book Title: Shuddhopayog
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 148
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૧૨૫ शुभाशुभं कर्म तथा विदित्वा; धर्मक्रियां ज्ञानिजनः करोति । नराः स्त्रियो ज्ञानिन उत्तमाश्च, निजाऽऽत्मधर्म प्रविकाशयन्ति ॥ १२० ॥ स्वपापकर्मत्यजनाय हेतुवैराग्यमस्त्येव च राजनीतिः । धर्मस्य रक्षाभिरुदेति धर्मः स्यार्मिजीवस्य सुखं च शान्तिः ॥ १२१ ॥ अतः स्वधर्मस्य कुरुष्व रक्षामेतत्तु कर्तव्यमहोऽस्ति राज्ञः। यथा यथाज्ञानमुदित चित्ते, बाह्या स्ततोऽल्पा नियमा भवन्ति ॥ १.१२ ।। प्रवर्तते चाऽऽत्मनि मानसंस्वं, बाह्यास्तु शेषा नियमा भवन्ति । सर्वस्य वर्णस्य च शिक्षणार्थ, सङ्केतितं राजपदं पृथिव्याम् ॥ १२३ ॥ त्वं लक्षयित्वा च निजाऽत्मशुद्धि, प्रेम्णा प्रजा रक्ष नरेन्द्र ! ! नीत्या । निशाम्य च श्रेणिकराजराजो, . धन्यं स्वमात्मानममानयत्सः ॥ १२४ ॥ प्रदक्षिणातः प्रणमन्प्रभु च, रोमाश्चपूर्णः प्रवभूव भूपः। धन्यो महावीर जिनेश्वरस्त्वं, सत्योऽस्त्ययं नाम तवोपदेशः ॥ १२५ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180