Book Title: Shuddhopayog
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૧૪૯ जाता अनन्ततीर्थशा, भविष्यन्ति भवन्त्यपि। अनन्त जैनधर्मस्य, सेवनाच प्रबोधनात् ॥२३९॥ सद्गुरोः कृपया भव्य, आत्मज्ञानी भवेज़्जनः। जैनधर्मी स विज्ञेयः, स्याद्वादज्ञानवेदकः ॥२४१॥ आगमनिगमव्याप्तो-जैनधर्मः सनातनः । कलौ प्रवस्य॑ति विश्वो-द्वारको मुक्तिदायकः ॥२४३॥ द्रव्यभावतया जैन-धर्मकर्म प्रवर्तनम् । जैनधर्मः स विज्ञेयः, सर्वप्रगतिसाधकः ॥२४४॥ जिनानां दर्शनज्ञान-चारित्राणां प्रदायकः। द्रव्यभावस्वरूपो यो-जैनधर्मः स उच्यते ॥२४॥ जैनानामुन्नते हेतु-द्रव्यभावतया शुभः। क्षेत्रकालानुसारेण, जैनधर्मः स उच्यते ॥२४६॥ जिनानां पूर्णविश्वासी, जैन आन्तरबाद्यतः। तस्य यः स्वाधिकारोऽस्ति, जैनधर्मः स उच्यते ॥२४७॥ रागद्वेषादिदोषाणां, नाशको द्रव्यभावतः। जैनधर्मःस विज्ञेयो जिनेन्द्रभक्तिपोषकः ॥२४८॥ दोषाणां नाशको योजस्त, गुणानां च प्रकाशकः । सर्वशक्तिप्रदो नृणां, जैनधर्मः स उच्यते ॥२४९॥ आत्मनि जैनधर्मोऽस्ति, बाहस्तु व्यवहारतः । व्यवहारो न मोक्तव्यो-जैनसंघस्य रक्षकः ॥२५०॥ आत्मा शुद्धो भवेद्येन, सर्वशक्तिप्रकाशकः । जैनधर्मः स विज्ञेयः, सद्गुरुदेवसाधनम् ॥२५१॥ जिनेन्द्रगुरुनिर्दिष्टा, विचाराचारराशयः। देशकालोद्भवास्तेऽपि, जैनधर्मो मयोच्यते ॥२५२॥
For Private And Personal Use Only

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180