Book Title: Shuddhopayog
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४४ अन्तराऽऽत्मा भवेज्जैनो-जैनधर्मस्य रक्षकः । मिथ्यात्विभ्यो महान्पूज्यः, श्रावको विश्वपावकः ॥१७९॥ जैनानां जीवनोपाया-स्तथावंशादिरक्षकाः। देशकालानुसारेणा, कर्तव्याः सर्वमानवैः ॥१८॥ अनादिकालतो जैना-जैनधर्मस्य साधकाः। ब्राह्मणाः क्षत्रिया वैश्या, शूद्राश्च विश्ववर्तिनः ॥१८॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राः स्वस्वप्रवृत्तिषु । वर्तमानाः सदा जैन-धर्म कुर्वन्ति शक्तितः ॥१८२॥ सर्वजातीयजैनानां, पावित्र्य सूर्यवत्सदा । जैनस्य स्पर्शमात्रेण, पवित्रं वस्तु जायते ॥१८३॥ गुणकर्मानुसारेण, वर्णकर्मव्यवस्थिताः। जैनाः परांगतिं यान्ति, अरिष्टनेमिसेवकाः ॥१८४॥ जैनधर्म वरं मृत्यु, न्यिधर्मेषु जीवनम् । इत्येवं पूर्ण विश्वास-कारका जैनधर्मिणः ॥१८॥ अरिष्टनेमिनाथेन, केवलज्ञानधारिणा। प्रकाशो जैनधर्मस्य, कृतस्तीर्थकृता शुभः॥१८६॥ साधवः श्रावकाश्चैव, जंगमतीर्थरूपिणः। तेषां भक्तिर्जनैः साध्या, स्वर्गसिडिप्रदायिनी ॥१८७।। सर्वदा सर्वथा जैना, आत्मान एव वस्तुतः। कर्मप्रकृतिजेतारः, शुद्धाऽऽत्माभिमुखाः शुभाः ॥१८॥ सर्वलोकेषु जैनाना, श्रेष्ठताऽनादिकालतः। प्रवर्तते स्वभावेन, जैनधर्मस्यसेवनात् ॥१८९॥
आपत्कालो यादाऽऽगच्छेत्, तदा तदनुसारतः। विचाराचारकर्माणि, वय॑न्तीति प्रभाषितम् ॥१९०॥
For Private And Personal Use Only

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180