Book Title: Shuddhopayog
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 154
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૧૩૧ कर्मेश्वरोऽस्ति सर्वत्र, सुखदुःखप्रदायकः । तस्येच्छा भाविभावस्य, रूपेणात्र प्रवर्तते ॥ २३ ॥ कर्मेच्छा यादृशी यस्थ, तस्य भवति तादृशम् । कर्मेश्वरसमो देवो, नास्ति विश्वप्रवर्त्तकः ॥ २४ ॥ कर्मणा मनुसारेण, सुखं दुःखं च देहिनाम् । कर्मभिः खलु संसारो, मुक्ति निर्मोहभावतः ॥ २५ ॥ आत्मना भुज्यते कर्म, यत्कृतश्च शुभाशुभम् । अन्तर्मुखोपयोगेन, सर्वकर्मक्षयो भवेत् ॥ २६ ॥ कर्मरूपेश्वराधीनं, सर्वविश्व प्रवर्तते । कर्मरूपेश्वराधीना, जीवाः संचारिणो भवे ॥ २७ ॥ रजोवृत्तिसमूहाssत्मा, ब्रह्मैव गीयते भुवि । तमोवृत्तिसमूहाSSत्मा, हर इत्थं प्रकीर्त्यते ॥ २८ ॥ सत्त्ववृत्तिसमूहाssत्मा, विष्णु रेव प्रगीयते । एषाssस्मा देहसंस्थोऽपि ब्रह्मादिनामधारकः ॥ २९ ॥ कर्मवृत्तितो जैन --आत्मा सर्वत्र गीयते । सत्वरजस्तमोवृत्त्या, जैनाssत्मा त्रिविधः स्मृतः ॥३०॥ सात्त्विक प्रकृतिस्वामी, अन्तराऽऽत्मा भवेन्महान् । सत्त्वातीतः परब्रह्म, सिद्धोऽर्हन् भवति प्रभुः ॥ ३१ ॥ सात्त्विका स्युर्महासिद्धाः साधवः सर्वभूतले । अवतीर्य स्वशक्त्यैव भवन्ति विश्वतारकाः ॥ ३२ ॥ आध्यात्मिकं बलं श्रेष्ठं, जडसत्ताबलादपि । आत्मसत्ताबलस्याग्रे, जडसत्ता न तिष्ठति ॥ ३३ ॥ उदयास्तमयं विश्व-चक्रं नित्यं प्रवर्त्तते । ज्ञात्वैवं सत्प्रभौ मग्ना भवन्ति ज्ञानिनो जनाः ॥ ३४॥ 5 " For Private And Personal Use Only

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180