Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay

View full book text
Previous | Next

Page 13
________________ मन्त्री कृतावहित्थोऽथ गृहे गत्वाव्यचिन्तयत्। हाव्याघ्रदुस्तटीन्याये पतितोऽस्मिकरोमि किम् ॥ १०३ ॥ रतिरम्भोपमाकारा राज्ञः पुत्री सुतस्तु मे । कुष्ठी तदेतयोर्योगं कथं जानन करोम्यहम् ॥१०४॥ अथवाऽयं मयोपायो लब्धो यत्कुलदेवताम् । आराध्य साधयिष्यामि सर्वमात्मसमीहितम् ॥१०५॥ ततश्चाराधयामास विधिना कुलदेवताम् । उवाच साऽपि प्रत्यक्षीभूय मन्त्रिन ! स्मृताऽस्मि किम् ॥ १०६॥ मंत्र्यूचे वं स्वयं वेत्सि सर्व दुःखस्य कारणम् । तथा कुरु यथा पुत्रो नीरोगाङ्गो भवेन्मम ॥ १०७॥ देव्यूचे नान्यथाकर्तुं नृणां कर्म पुराकृतम् । दैवतैरपि शक्येत वृथेयं प्रार्थना तव मन्त्री प्रोवाच यद्येवं तदन्यमपि पूरुपम् । तदाकारं निराकल्यं कुतोऽप्यानीय मेऽपय ॥१०९ ॥ तेनोद्वाह्य महाराजपुत्री कमललोचनाम् । अर्पयिष्यामि पुत्रस्य करिष्येऽस्य यथोचितम् ॥ ११ ॥ देवतोचे पुरीद्वारेऽश्वरक्षकनरान्तिके । शीतव्यथानिरासार्थमग्निसेवापरो हि यः ॥१११॥ कृतोऽप्यानीय मयका मुक्तो भवति बालकः समन्त्रिन ! भवता ग्राह्यः पश्चात्कुर्य्याद्यथोचितम् ॥ ११२ ।। (युग्मम्) इत्युक्त्वाऽन्तर्दधे देवी हृष्टोऽथ सचिवेश्वरः । सर्वा विवाहसामग्री प्रगुणीकुरुते स्म सः ॥११३ ॥ अश्वपालनरं छन्नमाकार्य निजकं ततः । तस्मै निवेद्य सकलं वृत्तान्तं सत्यमादितः ॥११४ ॥ इदमूचे च यः कश्चिदभ्येति भवदन्तिके । कुतोऽपि बालकः सो हि समर्यो मेऽविलम्बितम् ॥११५॥ १ रोगरहितम्.

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 381