________________
मन्त्री कृतावहित्थोऽथ गृहे गत्वाव्यचिन्तयत्। हाव्याघ्रदुस्तटीन्याये पतितोऽस्मिकरोमि किम् ॥ १०३ ॥ रतिरम्भोपमाकारा राज्ञः पुत्री सुतस्तु मे । कुष्ठी तदेतयोर्योगं कथं जानन करोम्यहम् ॥१०४॥ अथवाऽयं मयोपायो लब्धो यत्कुलदेवताम् । आराध्य साधयिष्यामि सर्वमात्मसमीहितम् ॥१०५॥ ततश्चाराधयामास विधिना कुलदेवताम् । उवाच साऽपि प्रत्यक्षीभूय मन्त्रिन ! स्मृताऽस्मि किम् ॥ १०६॥ मंत्र्यूचे वं स्वयं वेत्सि सर्व दुःखस्य कारणम् । तथा कुरु यथा पुत्रो नीरोगाङ्गो भवेन्मम ॥ १०७॥ देव्यूचे नान्यथाकर्तुं नृणां कर्म पुराकृतम् । दैवतैरपि शक्येत वृथेयं प्रार्थना तव मन्त्री प्रोवाच यद्येवं तदन्यमपि पूरुपम् । तदाकारं निराकल्यं कुतोऽप्यानीय मेऽपय ॥१०९ ॥ तेनोद्वाह्य महाराजपुत्री कमललोचनाम् । अर्पयिष्यामि पुत्रस्य करिष्येऽस्य यथोचितम् ॥ ११ ॥ देवतोचे पुरीद्वारेऽश्वरक्षकनरान्तिके । शीतव्यथानिरासार्थमग्निसेवापरो हि यः ॥१११॥ कृतोऽप्यानीय मयका मुक्तो भवति बालकः समन्त्रिन ! भवता ग्राह्यः पश्चात्कुर्य्याद्यथोचितम् ॥ ११२ ।। (युग्मम्) इत्युक्त्वाऽन्तर्दधे देवी हृष्टोऽथ सचिवेश्वरः । सर्वा विवाहसामग्री प्रगुणीकुरुते स्म सः ॥११३ ॥ अश्वपालनरं छन्नमाकार्य निजकं ततः । तस्मै निवेद्य सकलं वृत्तान्तं सत्यमादितः ॥११४ ॥ इदमूचे च यः कश्चिदभ्येति भवदन्तिके । कुतोऽपि बालकः सो हि समर्यो मेऽविलम्बितम् ॥११५॥ १ रोगरहितम्.