________________
प्रथमः प्रस्तावः
शान्तिनाथचरित्रम् ॥४॥
अस्त्यत्र
निश्चिन्तेनैव स्थातव्यं त्वया तात ! निजे गृहे । अत्याग्रहेण तद्वाक्यमनुमेने पिताऽपि तत् ॥ ८१ ।। एवं च कुर्वतस्तस्य धर्माभ्यासं तथान्तरा । कियत्यपि गते काले यजातं तन्निशम्यताम् ॥९० ।।
भरतक्षेत्रे चम्पा नाम महापुरी। अभूत्तत्र महाबाहुः पार्थिवः सुरसुन्दरः ॥९१ ॥ राज्ञो गुणावली तस्य सा निजोत्सङ्गवर्तिनीय । दृष्ट्वा कल्पलतां स्वप्ने पार्थिवाय न्यवेदयत् ॥ ९२॥ राजा प्रोवाच हे देवि ! तब पुत्री भविष्यति । सर्वलक्षणसम्पूर्णा सर्वनारीशिरोमणिः ॥९३ ।। पूर्णकालेऽथ चार्वङ्गी सा देवी सुपुवे सुताम् । त्रैलोक्यसुन्दरी नाम तस्याश्चक्रे महीपतिः ॥९४ ॥ लावण्यधनमञ्जूषा सौभाग्यरसनिम्नगा । बभूव यौवनप्राप्ता सा मूत्रैव सुराङ्गना ॥९५॥ तां विलोक्यानवद्यागीं दध्याविति घराधिपः । रमणः कोऽनुरूपोऽस्था वत्साया मे भविष्यति ।। ९६॥ ऊचे च प्रेयसीः सर्वा वराहेयं सुताऽभवत् । दातव्या ब्रूत तत् कस्मा अत्रार्थे वः प्रधानता ॥ ९७ ॥ ता ऊचुरियमस्माकं जीवितादपि वल्लभा । नालं धर्तुं वयं प्राणान् क्षणमप्यनया विना , ॥९८ ।। दातव्या तदसौ मन्त्रिपुत्रायात्रैव हे प्रिय ! । प्रत्यहं नयनानन्दकारिणी दृश्यते यथा ॥९९॥ ततो राज्ञा समाहूय सुबुद्धिः सचिवो निजः । अभाणि यन्मया दत्ता त्वत्सुतायात्मनन्दिनी ॥ १० ॥ अमात्योऽप्यवदद्देव ! किमयुक्तं ब्रवीष्यदः । कस्मैचिद्राजपुत्राय दातुं कन्या तवोचिता ॥१०१॥ राज्ञोचे न त्वया वाच्यमित्यर्थे किञ्चनापि भोः देया त्वत्सूनवेऽवश्यं पुत्री त्रैलोक्यसुन्दरी ॥१०२॥