________________
षड्भाषाचन्द्रिकायां
कुणिअहरवणुहभंगे जणअसुआसंतकमलिणीमित्ते । चिट्ठउ विहरउ संते रहुणाहे मह मणो निच्चं ॥४॥ अत्र मागधीप्राकृतयोः प्रथमासप्तम्योरेकवचनश्लेषः । ब्रह्माण्यम्ब भवद्वाल्यभाषणोद्राहिणं परम् । करुणाकलितापाङ्ग दृष्ट्या मां पश्य सर्वदा ॥ ५ ॥
अस्त्यन्ध्रदेशे चरकूरिवंशः ___ कृष्णातटे काश्यपगोत्ररूढः । यो बढचानां बहुमाननीयो
धत्ते सदा कीर्तिसुवैजयन्तीम् ॥ ६ ॥ यत्र नामादिमशिशोरङ्कितं वेङ्कटेशितुः । सलक्ष्मीकः स एवार्यों भगवान गृहदेवता ॥ ७ ॥ आसप्तपुरुषं यत्र लक्ष्मीवाण्योरवस्थितिः।। आसीत् कपोतनाथस्य वरात् कैदलिवासिनः ॥ ८॥ तत्रोदभूत्तिम्मयसोमयाजी
बुधोष्टभाषाकविपट्टभद्रः । नित्यान्नदाता निजभक्तिलब्ध
वृषाकपायीरमणप्रसादः ॥ ९ ॥ तस्मादुदैवइंचचक्रवर्ती
यज्ञेश्वरः पण्डितसार्वभौमः। सर्वाम्बिका सर्वगुणोपपन्ना
___ तस्य द्वितीयाभदैम्बिकामा ॥ १० ॥ छाया। कृतहरधनुर्भङ्ग जनकसुतास्वान्तकमलिनी मित्रे ।
तिष्ठतु विहरतु वान्ते रघुनाथे मम मनो नित्यम् ॥ १ कइअहर' R. २हंगे R. ३ चिट्ठदु B. ४ मज्झजे मणे णिचं R.; मह मणे णिचं M. ५ R. drops अत्र. ६ R. drops एक. ७ ब्रह्माण्या M.
ललिता' P., My. ९ चर R.; चरकूर M. १० कदल My. ११ कविचक्रवर्ती M. १२ वृषाकपाया P. १३ दम्बिका च R. १४ शान्ते R., M.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org