Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 799
________________ II Extracts from the commentary of Krşņadāsa. 1.1. नमतेत्यनेन तावत् समस्तप्रपञ्चव्यतिरिक्तरूपस्य भगवतो मधुमथनस्यासाधारणेन प्रपञ्चव्यतिरिक्तरूपेण निर्देशः क्रियते ।........अथवा पञ्चापि भूतानि मधुमथनस्यैव रूपाणीति भवन्ति । तत्र तावदवर्धिततुङ्गमित्यनेन मधुमथनस्य गगनरूपत्वमुक्तम् ।....गगनं ह्यवर्धितमहत्त्वं भवति, मधुमथनोऽपि तथेति । अविसारितविस्तृतमित्यनेन देवस्य पृथिवीरूपतोक्ता पृथिवी केनाप्यविसारितविस्तृता, मधुमथनोऽपि व्याप्तः । अनवनतगम्भीरमित्यनेन सलिलात्मकता । सलिलं युद्धतगम्भीरं च भवति, मधुमथनोऽपि तथा । यदप्यज्ञातपरमार्थप्रकटत्वं पृथिव्यादिषु सर्वेषु भूतेषु अप्यविशिष्टं तथापि तेषु विशेषगुणाभिधानात् अनेनास्य तेजोरूपत्वमुक्तं, मधुमथनोऽपि तथा । किं मधुमथनस्य भूतानि रूपाणि दृश्यन्ते इति चेत् भूतारब्धत्वेन दृष्टस्यापि जगतो मधुमथनमयत्वेन प्रदर्शनायेति । ____ 2.1. अथ रामः समुद्रमपश्यत् स्वकार्यस्य यौवनमिव स्थितमिति । सुग्रीवस्य सख्यादारभ्यं सीताधिगमनं यावत् रामस्य कार्य तत् समुंद्रदर्शनात् प्रागंचिरजातं शैशव इव वर्तते । समुद्रदर्शनादारभ्य तत्संबन्धं यावत् यौवन इव द्वितीयावस्थायाम् । अतः समुद्रो यौवनत्वेन वर्तते । यौवने वर्तमानस्य पुरुषस्य दोषशतानि भवन्ति । तथा समुद्रसंबन्धितया स्थितस्य तरुणरूपस्य कार्यस्य प्रतिबन्धकदोषशतानि भवन्ति । तेन चटुलत्वादियुक्तत्वेन समुद्रो यौवनत्वेन वर्यते इति । समुद्रो हि चटुलस्तिमितिमिगिलादिभिर्दोषशतैर्दुःखेनातिक्रमितव्यः । सारभूतेनामृतरसेन गुरुः । यौवनमपि चपलेन षुरुषेण युक्तं कामेनार्थक्षयादिभिदोंपशतैर्युक्तममृतरसायमानेन कामस्य भोगादिसारेण युक्तं चेति.। कस्यांचित् प्रतिहतो सत्यां रामस्य रघुतनयादिभिर्व्यवहारो भवति । अन्यत्र रघुनाथरामादिभिरिति । 2. 8. बहुशो वेलामतिक्रम्य तरङ्गैर्महीमप्याप्लाव्य निवर्तमानं समुद्रमिति । पार्श्वस्थिता वेला मही च समुद्रस्य भायें इव । तदा महीपार्श्व गच्छन्तं समुद्र Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812