Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 800
________________ APPENDIX - 307 मध्येमार्गे वेलालिङ्गति । तयालिद्गय मुक्ते पश्चात् स्वपार्श्वमागते तरङ्गकरैरात्मानं स्प्रष्टुमारब्धे समुद्रे असहमाना मही धुतवनराजिकरतला भवति । तथा कुपितायामिव मह्यां सत्यां समुद्रोऽपि भयेनैव भरितमपसर्पति । आशयेव' पुनरुपसर्पति । पुनस्तस्मिन आगते मही पूर्वमिव भवति । अथाप्यभिमतपुरुषस्पर्शागतेन रसेनामा॑ भवतीति मह्यां स्त्रीत्वनिर्वाहाय मलयमहेन्द्रस्तनीत्युक्तम् । 2,16. उद्धतेन पुरुषेण प्रथमं प्रतिहतत्वात् प्रतिनिवृत्तगतिभिः, तस्मिन् अन्तः प्रविष्टे त्वरितिनिवृत्ताभिः नदीभिः अन्वीयेमानं समुद्रमिति । स्त्रियो हि झटिति पुरुषेणानुगम्यमानाः स्वयं पराङ्मुख्यो भवन्ति । पश्चात्तस्मिन् उपेक्ष्य गते अनुशयविलोलास्तस्य गृहं स्वयमेवाभिसरन्ति । एवं समुद्रेण यदाभिलीना अभिगतास्तदा पराङ्मु ख्योऽभूवन् नद्यः । स यदा स्पृष्ट्वा तत्रालब्धसुखोऽपसृतस्तदा अनुशयविलोलाभिरिव वेपमाननिवृत्तपस्थिताभिर्नदीभिः समुद्रोऽन्वीयमानमार्ग इति । 4. 23. विषादादयो हि धैर्यादीनि नियतं नाशयन्ति । एवं वयःपरिणामोऽपि यत् गृहीतपक्षो नियतं नाशयन्ति । एवं वयःपरिणामोऽपि यत् गृहीतपक्षो नियतं नाशयति तत किमुच्यतां न किंचिदपीत्यर्थः । ___7. 50. जले मज्जन्त: प्राणिनो हि नासाप्रविष्टजला म्रियन्ते । तथा सति मजन्तो गजाः स्वनासारूपं करं जलाप्रवेशायोद्धरन्ति । 1. Citation in Devarata has आशयेन 2. Citation in Devarata has पुनः प्रविश्यमानं. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812