Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 801
________________ III An extract from the Rāmadrsţi fragment. - 1. 1. अप्रलघुपरिश्लक्षणम्-एवमुक्तनीत्या प्रलघुकम् । लघुरल्पः, अल्पेऽपि स्याल्लघुरित्यमरः, तदन्यमनल्पमपि परिश्लक्ष्णं सूक्ष्मम् । आकाशादपि अतीव प्रतनुकमिति भावः । यदुक्तं बृहद्वासिष्ठे गगनाङ्गादपि स्वच्छे शून्ये तस्मिन् परे पदे । कथं सन्ति सरिन्मेरुसमुद्रगगनादयः ॥ .. इति व्याप्तत्वेऽपि सूक्ष्मत्वादेव नोपलब्धिविषय इति भावः नन्वेवं तर्हि एवंभूतस्यात्मनोऽस्तित्वे कि प्रमाणमित्याह-अज्ञातपरमार्थप्रकटमज्ञातपरमार्थम् उक्तनीत्या अननुभूतयाथार्थ्यमपि प्रकटं प्रकाशं सर्वेषामपि प्राणिनामहमिति स्वसंवेदनसिद्धमिति भावः । यदाहुः गोपालकुम्भदासीनामप्यसौ प्रकटः सदा । रुद्रोपनिषदप्येवं स्तौति सर्वात्मकं शिवम् ॥ इति सर्वेषामपि संवेदनसिद्धत्वमेवात्मनोऽस्तित्वे प्रमाणमिति भावः । अत्र एवमीश्वरस्य प्रकटत्वे सति कथं प्राणिनां संसारित्वमिति शङ्कायाः नावसरः अज्ञातपरमार्थ इत्युक्तादेव हेतोरिति ।........ अत्र पञ्चभिर्विशेषणैः साक्षात सत्यज्ञानादिलक्षणमनन्तानन्दसागरं निष्कलं परमात्मानं प्रतिपाय पुन मधुमथनशब्देन तद्विवर्तभूतं रामाधवतारनिदानभूतं अस्त्यनन्तविलासात्मा सर्वगः सर्वसंश्रयः । चिदाकाशोऽपि नाशात्मा प्रदीपः सर्ववस्तुषु ॥ स्पन्दास्पन्दसमाकारस्ततो विष्णुरजायत । स्पन्दमानरसापूरात् तरङ्गः सागरादिव ॥ इत्यादिना बृहद्वासिष्ठे प्रतिपादितं विष्णुतत्त्वमुच्यते । Jain Education International national For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 799 800 801 802 803 804 805 806 807 808 809 810 811 812