Book Title: Sanskrit Vyakaran Shastra ka Itihas 03
Author(s): Yudhishthir Mimansak
Publisher: Yudhishthir Mimansak

View full book text
Previous | Next

Page 13
________________ संस्कृत व्याकरण-शास्त्र का इतिहास कारण प्रस्तुत निबन्ध की महत्ता को देखते हुए हम उसे नीचे प्रकाशित कर रहे हैं प्रक्रियासर्वस्वकार-नारायणभट्टकृता अपाणिनीय-प्रमाणता सुदर्शनसमालम्बी सोऽहं नारायणोऽधुना । वैनतेय ! भवत्पक्षमाक्रम्य स्थातुमारभे ॥१॥ तत्रायं संग्रह-- "पाणिन्युक्तं प्रमाणं, न तु पुनरपरं चन्द्रभोजादिसूत्रम्"; केऽप्याहुस्तल्लघिष्ठं, न खलु बहुविदामस्ति निर्मूलवाक्यम् ; बहङ्गीकारभेदो भवति गुणवशात, पाणिनेः प्राक कथं वा; पूर्वोक्तं पाणिनिश्चाप्यनुवदति, विरोधेऽपि कल्प्यो विकल्पः ॥२॥ अत्र तावद् इन्द्रचन्द्रकाशकृत्स्न्यापिशलिशाकटायनादिपुरातनाचार्यविरचितानां व्याकरणानामप्रमाणत्वमेव; मुनित्रयोक्तस्यैव तु प्रामाण्य मिति केचित् पण्डितंमन्या मन्यन्ते । तद् अपहसनीयमेव ; . चन्द्रादिवचसामनाप्तप्रणीतत्वाभावेन प्रामाण्यनिश्चयात् । पुरुषवचसामप्रामाण्यं तावद् अनाप्तप्रणीतत्वहेतुकमेवेति चन्द्रादिशास्त्राणामप्रामाण्य वद्भिस्तेषामनाप्तत्वे प्रमाणं वक्तव्यम् । तत्र तेषामनाप्तत्व तावत् प्रत्यक्षतो न लक्ष्यते । चन्द्रादिवाक्यमप्रमाणम्; शिष्टानङ्गी कृतत्वात् ; अवैदिकवाक्यवत-इत्यनुमानमत्र प्रसरीसति इति चेत् २० तत्र शिष्टानङ्गीकृतत्वमसिद्धमेव । तथा हि-के नामात्र शिष्टा व्यपदिष्टाः ? किं वैदिका एव; उत साधुशब्दव्यवहारिणः ? उत ये केचिद् भवदभीष्टा वा ? तत्राद्ये तावत् परमवैदिकानां वेदव्यासादीनां मुनित्रयालक्षितबहुपदप्रयोगदर्शनात् । 'दृष्टवा बहुव्याकरणं मुनिना भारतं कृतम्'-इति २५ चोक्तत्वात, शङ्कराचार्याणामपि प्रपञ्चसारादिषु 'हनेद' इत्यादि मुनित्रयानुक्तपदप्रयोगात्; वैदिकोत्तमानां च मुरारिमिश्र-सुरेश्वराचार्यादीनां विश्रामादि-शब्दप्रयोगात्, वैदिकवीरस्य नैषधकारस्य १. सुर्दशनम् - सच्छास्त्रमिति च । वैनतेय इति कश्चित पण्डितः । तस्य 'अपाणिनीयमप्रमाणम्' इति मतं निराकर्तु मेव नारायणभटटेन प्रबन्धोऽयं ३० लिखितः । नारायणः सोऽहम् =नारायणीयस्तोत्र-प्रक्रियासर्वस्वादीनां कर्ता॥

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 340