________________
संस्कृत व्याकरण-शास्त्र का इतिहास
कारण प्रस्तुत निबन्ध की महत्ता को देखते हुए हम उसे नीचे प्रकाशित कर रहे हैं
प्रक्रियासर्वस्वकार-नारायणभट्टकृता
अपाणिनीय-प्रमाणता सुदर्शनसमालम्बी सोऽहं नारायणोऽधुना । वैनतेय ! भवत्पक्षमाक्रम्य स्थातुमारभे ॥१॥ तत्रायं संग्रह-- "पाणिन्युक्तं प्रमाणं, न तु पुनरपरं चन्द्रभोजादिसूत्रम्"; केऽप्याहुस्तल्लघिष्ठं, न खलु बहुविदामस्ति निर्मूलवाक्यम् ; बहङ्गीकारभेदो भवति गुणवशात, पाणिनेः प्राक कथं वा; पूर्वोक्तं पाणिनिश्चाप्यनुवदति, विरोधेऽपि कल्प्यो विकल्पः ॥२॥
अत्र तावद् इन्द्रचन्द्रकाशकृत्स्न्यापिशलिशाकटायनादिपुरातनाचार्यविरचितानां व्याकरणानामप्रमाणत्वमेव; मुनित्रयोक्तस्यैव तु प्रामाण्य मिति केचित् पण्डितंमन्या मन्यन्ते । तद् अपहसनीयमेव ; . चन्द्रादिवचसामनाप्तप्रणीतत्वाभावेन प्रामाण्यनिश्चयात् । पुरुषवचसामप्रामाण्यं तावद् अनाप्तप्रणीतत्वहेतुकमेवेति चन्द्रादिशास्त्राणामप्रामाण्य वद्भिस्तेषामनाप्तत्वे प्रमाणं वक्तव्यम् । तत्र तेषामनाप्तत्व तावत् प्रत्यक्षतो न लक्ष्यते । चन्द्रादिवाक्यमप्रमाणम्; शिष्टानङ्गी
कृतत्वात् ; अवैदिकवाक्यवत-इत्यनुमानमत्र प्रसरीसति इति चेत् २० तत्र शिष्टानङ्गीकृतत्वमसिद्धमेव । तथा हि-के नामात्र शिष्टा
व्यपदिष्टाः ? किं वैदिका एव; उत साधुशब्दव्यवहारिणः ? उत ये केचिद् भवदभीष्टा वा ?
तत्राद्ये तावत् परमवैदिकानां वेदव्यासादीनां मुनित्रयालक्षितबहुपदप्रयोगदर्शनात् । 'दृष्टवा बहुव्याकरणं मुनिना भारतं कृतम्'-इति २५ चोक्तत्वात, शङ्कराचार्याणामपि प्रपञ्चसारादिषु 'हनेद' इत्यादि
मुनित्रयानुक्तपदप्रयोगात्; वैदिकोत्तमानां च मुरारिमिश्र-सुरेश्वराचार्यादीनां विश्रामादि-शब्दप्रयोगात्, वैदिकवीरस्य नैषधकारस्य
१. सुर्दशनम् - सच्छास्त्रमिति च । वैनतेय इति कश्चित पण्डितः । तस्य 'अपाणिनीयमप्रमाणम्' इति मतं निराकर्तु मेव नारायणभटटेन प्रबन्धोऽयं ३० लिखितः । नारायणः सोऽहम् =नारायणीयस्तोत्र-प्रक्रियासर्वस्वादीनां कर्ता॥