________________
अपाणिनोय-प्रमाणता
'नवाल्पमेधसि पटोरुचिमत्त्वमस्य'-इत्यादि प्रयोगात्, वैदिकस्थापकानां 'विद्यारण्याचार्याणां' 'धातुवृत्तौ' कथापयति' इत्यादौ शाकटायनादिमताङ्गीकारात्, वोप्पदेव-कौमुदीकारादीनां च वैदिकवराणामपाणिनीयानेकशब्दप्रदर्शनदर्शनात, इदानीमप्यूत्तरदेशस्थैर्वैदिकश्रेष्ठः सारस्वतादिव्याकरणानां प्रमाणीकरणात्, कौमुद्याश्च सर्वदेशपरि- ५ गृहीतत्वात्, पाणिनीयोत्पत्तेः प्राग्भवैश्च वैदिकैः व्याकरणान्तराणामेवाङ्गीकृतत्वात, पाणिनीयव्यतिरिक्तच्छान्दसलक्षणानां प्रातिशाख्यानां युष्माभिरङ्गीकृतत्वाच्च व्याकरणान्तराणां शिष्टाङ्गीकृतत्वं स्पष्टतरमेव ।।
ननु व्यासावृषिवचसां छान्दसत्वेन सिद्धत्वात् तत्सिद्धये कुतो १० व्याकरणान्तराङ्गीकारः ? 'दृष्ट्वा बहुव्याकरणम्' इत्यस्य च एकमेव व्याकरण बहुशो दृष्ट्वा इत्यर्थः-इति चेत्, तन्न, मुनित्रयानुक्तच्छान्दसपदसमर्थनार्थ छान्दसलक्षणतयापि व्याकरणान्तराणां तैरादरणीयत्वात्, 'बहुव्याकरण'मित्यस्य क्लिष्टार्थकल्पनानुपपत्तेः । ननु 'व्यत्ययो बहुलम्" 'बहुलं छन्दसि" 'सर्वे विधयः छन्दसि विकल्प्यन्ते” १५ इति सूत्रवातिकवचनादेव सिद्धेः व्याकरणान्तरं नान्वेष्यमिति चेत् तहि एतैरेव वचनैः कृतार्थों पाणिनिकात्यायनौ छान्दसविषयग्रन्थिकत्यायां किमर्थं परिक्लिष्टौ ? तस्माद् व्यासायुक्तावपि विशेषलक्षणव्याकरणान्तरं लभ्यमेव ।
न च प्रातिशाख्यलभ्यमिति वाच्यम् ; तेषामपि व्याकरणान्तरत्वेन २० भवदुक्तिविरोधित्वात् । ननु प्रातिशाख्यानि असाधारणव्याकरणान्येव, साधारणव्याकरणान्तराणामेव च प्रामाण्यमस्माकमनिष्टम् इति चेन्न, अपाणिनीयत्वसाम्येऽपि असाधारणव्याकरणानामिष्टत्वे साधारणेषु विद्वेषे च निमित्ताभावात् । पाणिनीयस्य नियमपरत्वात् तत्सदृशेषु अन्येषु प्रद्वेष इति तु पश्चान्निराकरिष्यते । यत्तु–'अपशब्दास्त्रयो २५ माघे' इत्यारभ्य 'व्यासस्तन्यतां गतः' इति तदपि गुरुलघ्वोः ग-लशब्दोक्तिवत्, नामैकदेशेन नामग्रहणादपशब्दा इति अपाणिनोयशब्दा इति व्याचक्षते महान्तः । उक्तं च
१. कौमुदीकारशब्देनेह प्रक्रियाकौमुदीकृदिहाभिप्रेत: । कौमुदीशब्देनेह सर्वत्र प्रक्रियाकौमुदी ग्राह्या।
२, अष्टा० ३।११८५॥ ३. अष्टा० २।४।७३, ७६ इत्यादि बहुत्र । ४. महाभाष्य १४६॥