________________
संस्कृत व्याकरण-शास्त्र का इतिहास
५
१०
"अष्टादशपुराणानि नव व्याकरणानि च । निर्मथ्य चतुरो वेदान् मुनिना भारतं कृतम् ॥” इति । "यान्युज्जहार भगवान् व्यासो व्याकरणाम्बुधः ।
तानि कि पदरत्नानि मान्ति पाणिनिगोष्पदे ?" ॥ इति च ननु छान्दासानाम् अच्छान्दसत्वेन प्रयोगादेव व्यासस्य व्याकरणानभियुक्तत्वमिति चेत्-मैवं सर्वज्ञं व्यासं प्रत्यमङ्गलं वचः । एवञ्च पाणिनेरपि व्याकरणानभियुक्तत्वं स्याद् इति स्वगलच्छेदकमेवेदं भवतो वचनम्। सोऽपि हि 'वृद्धिरादेच्" इति कुत्वाभावं छान्दसमेव प्रयुकावान् इति 'कुत्वं कस्मान्न भवति' इत्यादिना भाष्यजालेन भाष्यते इत्यास्तां तावत् । एतेन 'साधशब्दव्यवहारत्वं शिष्टत्वम् इति च निरस्तम् । किञ्च, शिष्टव्यवहृतानामेव साधुत्वम् साघुशब्दव्यवहारिणामेव शिष्टत्वम् इति परस्पराश्रयोऽपि प्रसज्येत । शिष्टप्रयुक्तानामेव साधुत्वमिति च व्याकरणमीमांसायामविवादमिति ।
__ एवं तृतीयपक्षोऽपि म्रदीयान् । 'मुनित्रयमतमात्राङ्गीकारिण एव १५ शिष्टाः' इत्यत्र श्रतिस्मतिवचनाभावेन भवत्कपोलमात्रकल्पितत्वात् ।
मुनित्रयवचनस्यैव प्रामाण्यात् तदङ्गीकारिणामेव शिष्टत्वमिति चेत कहिचित् प्रामाण्यवशात् तदङ्गीकारिणां शिष्टत्वम्, शिष्टाङ्गीकृतत्वाच्च प्रामाण्यम्-इत्यन्योन्याश्रयलाभ एव धन्यात्मनाम् । अथ ये
केचिदेव भवदभीष्टाः शिष्टा इति चेत्-ये केचिद् अस्मदभीष्टा इति २० दुर्युक्ति-युक्त एवायं वादकलहः स्यात् । तदिदमुक्तम
"न खलु बहुविदामस्ति निर्मूलवाक्यम्" इति ।
बहुविदां व्यासशङ्करादीनां निर्मूलपदप्रयोगाभावात् तन्मूलतया व्याकरणान्तराणां तैरङ्गीकृतत्वात्, शिष्टाङ्गीकृतत्वहेतुरसिद्ध एवेति
भावः । शब्दाश्च वैदिको वा मन्वादिकथितो वा न व्याकरणान्तरा२५ णामप्रामाण्यबोधको दृश्यते । न च मुनित्रयवचनं तदनुसारि ग्रन्था
न्तरं वा पुनरितरप्रमाण्यप्रतिक्षेपकं साक्षादीक्षामहे । ___ यत्तु क्वचिद् ‘विश्रामा'दीनामयुक्तत्वभाषणम्, तल्लक्षणान्तरः दर्शनेन प्रयोक्तव्यम्, इत्येतावत्परम् । अन्यथा सर्वदैव मुनित्रयवचन
निबद्धादसणां मुरार्यादीनां तत्प्रयोगानुपपत्तः। ३० किञ्च, मुनित्रयतदनुसारिवचसां प्रामाण्यातिशये सिद्ध एव तैरन्य
१. अष्टा० १११११॥