________________
अपाणिनीय-प्रमाणता
शास्त्राणां बाधः, अन्यशास्त्राणाम् एतद्बाध्यत्वेन दौर्बल्यातिशये सिद्ध एव च एतद्वचसां प्रामाण्यातिशयसिद्धिः, इत्यन्योन्याश्रयेणैव हन्यन्ते महान्तः । मुनित्रयवचनादेव मुनित्रयवचनप्राबल्यसिद्धिरिति स्वाश्रयमपि प्रसक्तमेव । न च "पञ्च पञ्चनखा भक्ष्याः' इतिवत् मुनित्रयवचनेन 'एत एव साधुशब्दाः' इति नियमितत्वाद् अन्येषामप्रामाण्य- ५ मिति वाच्यम् । 'पाबादयः प्रयोगतोऽनुसर्तव्याः'-इत्यादेः तत्र तत्र वर्णनात्, प्राकृतिगणादिपरिग्रहाच्च नियमाभावस्य स्पष्टत्वात् । अन्यथा पाणिनिकात्यायनाभ्यामेत एव साधव इति नियमनाद भाष्यकारकृतेष्ट्यादिवचनमप्रमाणं स्यात् । पाणिनिनियमितत्वाद्वा कात्यायनवचनान्यपि बाध्येरन्।
ननु पतञ्जलेः सर्वोत्कृष्टत्वात् तद्वचनबाधाभावाय व्याकरणन्तरमपि प्राप्तम् । मुनित्रयवचनस्य नियमपरत्वे छान्दससूत्रैरेत एव साधुशब्दा इति नियमितत्वात् प्रातिशाख्यान्यपि प्रत्याख्येयानि स्युः ।
ननु मुनित्रयवचने वेदविशेषलक्षणानिरीक्षणात् सामान्यलक्षणपराणि व्याकरणान्तराणि एव तेन व्यावय॑न्ते; न वेदवशेषलक्षण- १५ पराणि प्रातिशाख्यानि इति चेन्न-'सम्बुद्धौ शाकल्यस्येतावना यजुष्युरः'3 'देवसुम्नयोर्यजुषि काठके' 'सामसु' इकः प्लुतपूर्वस्य सवर्णदीर्घबाधनार्थ यणादेशो वक्तव्यः' इत्यादि वेदविशेषलक्षणानामपि स्पष्टं दृष्टत्वात् । न च, 'दृष्टानुविधिश्छन्दसि भवति" इति वचनात्, छान्दसेष न नियमः प्रवर्तते, इति वाच्यम् । शास्त्रसाकल्यस्य नियम- २० परत्वे तदन्तर्गतछान्दसेऽपि नियमस्य दुर्वारत्वात् । 'शिष्टप्रयोगानुसारि व्याकरणम्' इति तत्र तत्र दर्शनेन, लौकिकेष्वपि शिष्टानुविधिसाम्याच । तस्माद् प्राकृतिगणादिभिः सावशेषे शास्त्रे एतेषामेव शब्दानां प्रयोगे धर्मो भवतीति नियन्तुमशक्यत्वात्, 'एतत्प्रकाराणां साधुशब्दानां प्रयोगे धर्मः, तदितरापशब्दप्रयोगे तु अधर्मः' इत्येतावदेव २५
१. रामा० किष्किन्धा १८॥३६॥ बु बोधा० प्रश्न १, अ० ५, सू० १५२ । २. अष्टा० १११।१६॥ ३. अष्टा० ६।११११३॥ ४. अष्टा० ७।४।३८॥ ५. द्र०-'यज्ञकर्मण्यजपन्यूजसामसु' अ० १।२।२४॥ ६. द्र०-महाभाष्य ८।२।१०८॥ इह वात्तिकाभिप्रायस्यार्थतोऽनुवादः। ३० ७. महा० १११६॥