SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ संस्कृत व्याकरण का इतिहास नियमपरत्वं वक्तव्यम् । अत एव तद्धितप्रकरणे शिष्टाप्रयोगतोऽनुगन्तव्यम्' इत्यस्मिन्नर्थे वृत्तिकारेण' उक्त पदमञ्जरीकृदाह' ___ 'किमर्थं तहि व्याकरणमिति चेदुच्यते-व्याकरणोक्तान शब्दान् । . विदित्वा तत्सम्यग्व्यहारिणः पुरुषान् दृष्ट्वा शिष्टा एते इत्यवगम्य ५ तत्प्रयुक्तमन्यदपि ग्राह्यतया ज्ञातु शिष्टपरिज्ञानार्थं व्याकरणमिति ।' प्रतो नियमपरत्वं परास्तम । किञ्च, अत्र भाष्यादिगिरा तदुक्तेः प्राबल्यमित्येवमुदीर्यते चेत् ततो मदुक्तवशात् मदुक्तिः प्रमाणमित्येव वचो लघीयः । तत्सिद्धम् अपौरुषेयः पारुषेया वा शब्दो न व्याकरणान्तराणामप्रामाण्यं बोधयतीति । तदिदमुक्तम् 'न खलु बहुविदामस्ति निर्मूलवाक्यम्' इति । बहुविदां भाष्यकारादीनां निर्मूलं शास्त्रान्तराप्रामाणकथनं स्व. वचनप्राबल्यवचनं वा स्वाश्रयाभिभावान्न सम्भवतीति भावः । अत्र क्वचित् परशास्त्रदूषणमस्ति चेदपि युक्तिरसमात्रेणैव इत्यवगन्तव्यम् । किञ्च. 'प्रसिद्धवदत्राभाद्' इत्यादिपरःशतानि सूत्राणि भाष्य१५ निरस्तान्यपि न त्यज्यन्ते । तद् वस्तुपरशास्त्रम् इति । ननु, बह्वङ्गी कारान्यथानुपपत्त्या मुनित्रयवचसामेव प्रामाण्यम्, अन्यशास्त्राणामप्रामाण्यमपि सिद्धम् इत्यर्थापत्तिरेवात्र प्रामाणम् इति चेत् -तदपि न, सुग्रहत्वपरिमितत्वादिगुणातिशयवशादेव बह्वङ्गीकारविशेषणस्य उपपत्तेः । तद्वशादन्येषामप्रामाण्यस्य साधयितुमशक्यत्वात् । अन्यथा तर्कग्रन्थेषु मणिरेव' बह्वङ्गोकृत इति 'कुसुमाञ्जलि-किरणावलि*पक्षिलभाष्यादीनि अप्रमाणानि भवेयुः। शब्दशास्त्रेऽपि कय्यटटीका बह्वङ्गकृतेति भर्तृहरिटीकाद्यप्रमाणं स्यात् । स्मृतिष्वपि मानवादीनां पुराणेष्वपि भागवतादीनां, शिक्षासु च शौनकीयादीनां बह्वङ्गीकृतत्वाद् इतरेषाम् अप्रामाण्यं वदन् भवान् १. अत्र पठितं वृत्तिकृद्ववनं पदमञ्जरीकृद्व्याख्यानं च तद्वितप्रकरणे नोपलभ्यते । पृषोदरादीनि यथोपदिष्टम् (अ० ६।३।१०६) इत्यस्य सूत्रस्य वृत्ती पदमआर्यां चायमभिप्रायो वर्ण्यते। २. अष्टा० ६।४।२२॥ ३. मणिशब्देनेह गङ्गशोपाध्यायकृतो न्यायविषयकश्चिन्तामणिग्रन्थोऽभिप्रेतः। ४. न्यायवात्स्यायनभाष्यमिति भावः। ५. एतद्विषये द्रष्टव्यम् 'सं० व्या० शास्त्र का इतिहास' भाग १, पृष्ठ २८० (च० सं०)।
SR No.002284
Book TitleSanskrit Vyakaran Shastra ka Itihas 03
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherYudhishthir Mimansak
Publication Year1985
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy