________________
अपाणिनीय-प्रमाणता
अवैदिकतमश्च प्रापद्यत ! पाणिनीयानां तु गुणातिशयोऽस्माकमिष्ट एव । इतरेषामप्रामाण्येव तु अनिष्टम् । एतेन मीमांसादिष व्याख्यानाय पाणिनीयमेव गृहीतमिति तस्यैव प्रामाण्यमित्येतदपि निरस्तम् । गुणवत्त्वात् प्रसिद्धतया मीमांसादौ तदुपादानोपपत्तेः । तेन अन्येषाम् अप्रामाण्यकल्पनानवकाशात् । तदिदमुक्तम्'बह्वङ्गीपालभेदो भवति गुणवशाद' । इति ।
किञ्च, एवं वादिना पाणिनेः प्राक् कथं शब्दव्यवहारवार्ता इति वक्तव्यम् । नहि तदा साधुशब्दव्यवहार एव नास्ति इति युक्तम् । ऊहादिसाधुत्वाभावेन सकलधर्मानुष्ठानविप्लवप्रसङ्गाद् अपशब्दप्रयोगकृतसर्वनरकपातप्रसङ्गाच्च सर्वेषां म्लेच्छताप्रसङ्गात् ।
न च तदा ज्याकरणं विनैव साधुशब्दान् जानन्ति इति वाच्यम् । 'ब्राह्मणेन निष्कारणो धर्मः षडङ्गो बंदोऽध्येयो ज्ञेयश्च' इति श्रुतिवचनात्', तदानीं षडङ्गाध्ययनाभावेन सर्वेषामब्राह्मणत्वप्रसङ्गात् ।
न च पञ्चाङ्गान्येव तदानीमध्येयानि इति वा, पाणिनीयस्यैव अङ्गत्वमिति वा वचनमस्ति । 'भाष्यकारोऽपि "तस्मादध्येयं व्या- १५ करणम्" इत्येव' मुहुर्मुहुराह, न तु अध्येयं पाणिनीयमिति । तस्मात् पाणिनीयोत्पत्तेः पूर्वं पूर्वव्याकरणानामेव बह्वङ्गीकारात् तदन्यथानुपपत्तिजं प्रामाण्यं तेषामप्यनिवार्यम् । किञ्च, पूर्वं तावत् पूर्वशास्त्राष्येव बह्वङ्गीकृतानि सम्प्रत्यपि संप्रथन्ते । पाणिनीयं तु इदानीमेव बह्वङ्गीकृतम् पूर्वं न प्रवर्तत इति बह्वङ्गीकारविशेषणप्रामाण्यसाधने २० तेषामेव वैशिष्टयं स्यात् । ननु प्रमाणचराण्यपि पूर्वशास्त्राणि पाणिनीयोत्पत्तेः परस्तात् परास्तप्रामाण्यमनुसृणान्यपि अभूवन् इति चेत् मैवम् ।
कथं प्रमाणभूतानां कालात् प्रामाण्यानह्नवः ?
श्रुतिस्मत्यादयोऽप्येवमप्रमाणाः स्युरेकदा॥३॥ अत एव हि "कृते तु मानवो धर्मः" इति केनचित् साक्षादुक्तमपि २५ अनादृत्य कलियुगेऽपि मनुवचनं प्रमाणीक्रियते । अतो न कालवशात् प्रामाण्यक्षयः । गुणभेदादङ्गीकारभेद एव तु भवति इति ।
तदिदमुक्तम्-'पाणिनेः प्राक् कथं वा' इति । एवमप्रामाण्य
१. महाभाष्यकारेण वचन मिदमागमनाम्नोद्धृतम् । द्र०-५० १, पा० आह्निक १॥
२. व्याकरणप्रयोजनवर्णनक्रमे। ३०