________________
संस्कृत व्याकरण-शास्त्र का इतिहास हेत्वभावे सिद्धे, न खलु बहुविदामस्ति निर्मूलवाक्यम्' इत्यनेन एव शास्त्रान्तराणां प्रामाण्यं साध्यम् । चन्द्रादिवाक्यं प्रमाणम्, समूलवाक्यत्वात्, पाणिनीयवत् । समूलं च तद्वाक्यं बहुविद्वाक्यत्वात्, तद्वदेव बहुविदश्च ते शास्त्रकारित्वात् पाणिनिवदेव ।
नहि बहुविधं वक्तव्यजातं सम्यगजानन् शास्त्रं कर्तु मारभते, आरभमाणोऽपि वा परिहासास्पदं स्यात् । तस्मात् शास्त्रकारकत्वेन प्रसिद्धानां तेषामपि शब्दतत्त्वविस्तरवेदित्वात्, भ्रान्ति विप्रलम्भकत्वशङ्कायाश्च पाणिनिवदेव तेषामपि निरवकाशत्वात्, सावकाशत्वे
वा पाणिनेरपि तच्छङ्काया दुर्वारत्वाद्, प्राप्तप्रणोतत्वहेतुना व्या१० करणान्तराण्यपि प्रमाणानीति सिद्धम् ।
ननु पाणिनीयगतज्ञापकादिनैव शिष्टप्रयोगाणां साधयितु शक्यत्वाद् व्याकरणान्तराणां वैफल्यादेव अप्रमाणत्वं ब्रम इति चेत्तदपि न, क्वचित् प्रयोगाल्लक्षणकल्पना, क्वचिल्लक्षणात प्रयोग
कल्पनम्-इति पाणिनीयपातिव्रत्यजुषामपि अविवादम् । तत्र शिष्ट१५ प्रयोगे दृष्टे ज्ञापकादिनैव साध्यत्वं नाम।
यत्र त 'कथापयति' इत्यादी व्याकरणान्तरलझणमेव दृष्टम्, तत्र कथमस्य गतार्थत्वकृतप्रामाण्यमापद्यते ? अपि च शिष्टप्रयोगदष्टिस्थलेऽपि विश्रामादौ व्याकरणान्तरसाक्षाल्लक्षणस्य स्पष्टदष्टत्वात' क्लिष्टतरज्ञापकादिवर्णनं गौरवायेति प्राप्तेऽपि प्रौढिकामैमुनित्रयपूजनार्थं तदीयज्ञापकादिनैव साध्यते चेद् -अस्माकमपि अदष्टतरमेव । न तु तेन व्याकरणान्तराणां गताथत्वम् अप्रामाण्यं वा इत्यास्तामेतत् ।
किञ्च, पूर्वाचार्याणां प्रामाण्यं पाणिन्यादीनाम् अनुमतमेव । 'आडि चापः', 'पौङ प्रापः इत्यादी पूर्वाचार्यमतसाक्षात्संज्ञाया एव २५ उपात्तत्वात्।
'व्योलघुप्रयत्नतरः शाकटायनस्य"; वा सुप्यापिशले:५; 'वष्टि
१. 'वेः क्रमेर्वा' इति वर्षमान: । द्र०-भागवृत्तिसंकलनम्, पृष्ठ ३७, उद्धरण० ११४ । २. अष्टा० ७।३।१०॥
३. अष्टा० ७११८॥ ४. अष्टा० ८।३।१८।।
५. अष्टा० ६।१३२॥