________________
३/२
अपाणिनीय प्रमाणता भागुरिरल्लोपमवाप्योरुपसर्गयोः" इत्यादौ पूर्वाचार्यमतस्य साक्षादुपादानाच्च । न हि पूर्वाचार्यसङ्कीर्तनमात्राद् विकल्प उत्तिष्ठति । तन्मतमेवं मम मतमेवम् इति तन्मतोपादानादेव विकल्पसिद्धिः ।
किञ्च, 'तदशिष्यं संज्ञाप्रमाणत्वात्"; 'लुब्योगाप्रख्यानात्" इति पूर्वाचार्योक्तं पाणिनिः स्वयमेव दूषयित्वा पुनः 'जनपदे लुप्" इत्या- ५ दीनि दूषित चराण्येव पूर्वाचार्य वचनानि स्पष्टमुपादत्ते । तेन ज्ञायते क्वचिद् युक्तिरसाद् दूषणे कथितेऽपि पूर्वाचार्यवचनमुपादेयमेवेति ।
एवं पाणिनिना स्वेन दूषितस्यापि समहात् । पूर्वाचार्यमतं क्वापि व्याख्यादौ इष्यते यदि ॥४॥ युक्तिप्रौढिरसेनैवेत्यवगच्छन्तु कोविदाः । तावता हेयता नेति ज्ञापयामास पाणिनिः ।।५॥ तेन पाणिन्युक्तं प्रमाणमित्यङ्गीकुर्वतापि तदभिमतत्वादेव पूर्वशास्त्राण्यपि प्रमाणमित्यङ्गीकर्तव्यम् । तदिदमुक्तम्
'पूर्वोक्तं पाणिनिश्चाप्यनुवदति' इति ।
किञ्च, अनादिश्चैषा व्याकरणपरम्परा इत्युक्तत्वात, पूर्वव्या- १५ करणमूलमालोच्य पाणिनिनापि शास्त्रं कृतम् इति वक्तव्यम् । 'तेन प्रोक्तम्' इत्यत्रैव 'पाणिनीयं शास्त्र' मित्युदाह्रियते; न 'कृते ग्रन्थे' इत्यत्र । तस्मात् पाणिनिनापि शास्त्रस्य प्रत्याहारविशेषशालित्वेन उक्तत्वमेव; न कृतत्वम् इत्यवगम्यते । ततश्च अपाणिनीयत्वात् पूर्वशास्त्राणामप्रामाण्यं वदता पाणिनीयस्यापि निर्मूलत्वाद् अप्रामाण्यमेव २० आपादितमिति सकलव्याकरणभञ्जनं सञ्जनितं महाशाब्दिकैः ।
ननु पाणिनिः पूर्वशास्त्राणि प्रयोगान्तराणि च दृष्ट्वा तेष हेयभागमपहाय शास्त्रं कृतवान् इति पाणिन्यनुक्तं हेयमेवं इति चेत् न; पाणिन्यनुक्तस्य हेयत्वे वातिककीर्तितस्यापि हेयत्वप्रसङ्गात् । न च सूत्रवातिककारयोरसर्व वित्त्वेऽपि भाष्यकारस्तु भगवान् शेष एव इति २५
१. प्रक्रियाकौमुदी भाग १, पृष्ठ १८२। धातुवृत्तिः, इण् धातो, पृष्ठ २४७ । न्यास ६।२।३७, पृष्ठ ३४६ । २. अष्टा० १॥२॥५३॥
३. अष्टा० ११२॥५४॥ ४. अष्टा० ४।२।१०॥
५. अष्टा० ४।३।१०१॥ ६. अष्टा० ४।३।११६॥