________________
संस्कृत व्याकरण-शास्त्र का इतिहास
तस्मिन् अज्ञातृत्वशङ्काभावात तदनुक्तं हेयमेव इति वाच्यम् ? ज्ञातृत्वेऽपि आनन्त्यवशाद् अनुक्तिसम्भवात, अन्यथा प्राकृतिगणादीनि कुतस्तेन परिच्छिन्नानि ? इत्यास्तां तावत् । तेन एवमेव वक्तव्यम्
द्रष्ट्वा शास्त्रगणान् प्रयोगसहितान् प्रायेण दाक्षीसुतः, प्रोचे, तस्य तु विच्युतानि कतिचित् कात्यायनः प्रोक्तवान् । तभ्रष्टान्यवदत् पतञ्जलिमुनिस्तेनाप्यनुक्तं क्वचिल्लोकात् प्राक्तनशास्त्रतोऽपि जगदुर्विज्ञाय भोजादयः ॥६॥
अत: सिद्धं पाणिनीयमूलभूतत्वात् पूर्वशास्त्राणां प्रामाण्यमनिवार्यमिति । तदप्युक्तम–'पूर्वोक्तं पाणिनिश्चाप्यनुवदति' इति । ननु, अस्तु तावदेवमविरोधस्थले-पाणिन्यादिवचनविरोधे तु शास्त्रान्तरोक्तं बाध्यमेव इति चेन्न, तेषामपि प्रमाणत्वेन अबाध्यत्वस्य स्थितत्वात् । 'उदितानुदितहोमवत् षोडशिग्रहणाग्रहणवत् च विकल्पस्यैव प्रकल्प्यत्वात् । अत एव स्मतिचन्द्रिकादिषु स्मतिकारवचनयोविरोधे
सति द्वयोरपि बिकल्पेन ग्राह्यत्वं तत्र तत्र उच्यते । १५ तत्र तत्र विकल्पार्थ पूर्वाचार्यानुदीरयत् ।
मतभेदे द्वयं ग्राह्य ज्ञापयत्येव पाणिनिः ॥७॥
न च एकस्यैव शब्दस्य शास्त्रद्वयेन साधुत्वम् असाधुत्वं च बोध्यते, इति वस्तुतो द्वैरूप्ययोगेन विरोधस्यैव युक्तत्वात् न ग्रहणाग्रहणानुष्ठानवद् विकल्प-सम्भव इति वाच्यम्, न हि केनापि शास्त्रेण शास्त्रान्तरोक्तस्य प्रसाधुत्वं बोध्यते । किन्तु, लक्षणशिष्टप्रयोगरहिताः शब्दा असाधव इति दिक्प्रदर्शनन्यायेन बोधितं भवति इति नियमपरत्वदूषणावसर एव भाषितम् । किञ्च षोडशिग्रहणमपि शास्त्राभ्यामदष्टहेतत्वेन प्रत्यवायहेतुत्वेन च बोधितमिति कथं तत्र श्रुतिशरणानां
विकल्पेनापि प्रवृत्तिसिद्धिरिति पृष्टे यः परिहारः स एवात्रापि भवि२५ ष्यति इति सिद्धं विरोधप्रतिभानेऽपि विकल्पेन ग्रहणमिति । तदिद
मुक्तम्-'विरोधेऽपि कल्प्यो विकल्प:'- इति । किञ्च, विरोध एव पाणिनीयेतरवचसोर्न संभवति । तत्र विधिसूत्रेषु तावद् ऐतेभ्य एवायं
१. 'उदिते होतव्यम्' इत्येका श्रुतिः 'अनुदिते होतव्यम्' इत्यपरा । अनयोस्तुल्यबल विरोधित्वाद् विकल्पेन प्रामाण्यमाश्रियते।
२. अतिरात्रे षोडशिनं गृह्णाति' इत्येका श्रुतिः, 'नातिरात्रे षोडशिनं गृह्णाति' इत्यपरा।