________________
अपाणिनीय-प्रमाणता
प्रत्ययो भवति इत्यादिनियमो न संभवति । अप्राप्ते नियमायोगात् । न च 'सर्व वाक्यं सावधारणम्' इति न्यायेन नियमः शङ्कनीयः । अयोगव्यवच्छेदेनापि अवधारणसम्भवात् । अन्याऽप्राप्तविधिनियमविधिद्वयकथापि उच्छिद्यत । तस्माद् अप्राप्तविधिष तावत् परशास्त्रैरधिकोक्ती न विरोधः, यत्र तु उत्सर्गतः प्राप्तौ अपवादतया नियमार्थ सूत्रं तत्रापि ५ परैरधिकोक्तौ 'क्वचिदपवादविषयेऽपि उत्सर्गो भवति' इति न्यायादविरोधः ।
न च पाणिनिना न इत्युक्ते परैः अस्ति इत्युच्यमाने विरोधः । ज्ञापकगणननिर्दिष्टानि अनित्यानि इति ननिर्दिष्टस्य अनित्यत्व. कथनेन परविरोधोद्धृतत्वाभावात् । न च भाष्याधुक्तिभिर्विरोध इति १० वाच्यम् ।
युक्तयो न्यायवाक्योत्था न्यायाश्च ज्ञापकोद्भवाः । ज्ञापकोक्तास्वनित्याश्च न चानित्या विरोधिनः ॥८॥ युक्तैव शब्दसिद्धिश्चेद् विप्लुता शब्दसाधुता । तस्माद् दृढप्रयोगान् वा पूर्वव्याकरणानि वा ॥ ६॥ १५ मालम्ब्यैव हि युक्त्यापि साधयन्ति मनीषिणः । अत एव हि युक्त्युक्त्या साधवे वक्तृचिन्तनम् ॥ १० ॥ तस्माच्छब्दाभियुक्तानां युक्त्या द्वेधाऽपि साधने ।
समूलत्वाद् द्वयं ग्राह्यम्; अविरोधश्च वर्णितः ॥११ । न क्वचित् ज्ञापकं विनाऽपि 'विप्रतिषेधे परं कार्यम्" इति साक्षा- २० द्वचनमेव यूक्तिः स्याद् इति तत्र अनित्यत्वाभावाद विरोध इति वाच्यम, साक्षाद्वचनेऽपि विधिनिषेधकोट्योरविरोधस्य प्रागुक्तत्वात । तत्सिद्धमविरुद्धत्वात् सर्वव्याकरणानां समप्रामाण्यम् । तदिदमुक्तम्विरोधस्यासम्भवद्योतकेन 'विरोधेऽपि' इति अपि शब्देन । नन्वस्तु तावदेवं पूर्वव्याकरणानाम् आर्षत्वेन प्रामाण्यम, अर्वाचीनभोजबोपदे- २५ वादिवचनानां तु कथं कथ्यते इति चेत् तत्रापि__ 'न खलुबहुविदामस्ति निर्मूलवाक्यम्'
इति ब्रूमः । भाष्यादिकथितसकललक्षणानुकथनादिपरिनिश्चित
१. परिभाषावृत्तिषु 'उत्सर्गोऽभिनिविशते' पाठः । पुरुषोत्तमदेव ११५, सीरदेव ३३, नागेश ५८।
२. मष्टा० १२४२॥