________________
संस्कृत व्याकरण-शास्त्र का इतिहास
बहुविद्भावा हि भोजादयः शास्त्रान्तरमहाजनप्रयोगादिमूलमालम्ब्यैव शास्त्राणि प्रणीतवन्त इति पाणिनीयवत् तेषामपि प्रामाण्यमेव । त्रिमुनिव्याकरणे उत्तरोतरं च प्रामाण्यमित्यत्रापि बहुवित्त्वमेव उत्तरोत्तरप्रामाण्ये हेतुः । दृष्टहेतुसम्भवे अदृष्टहेतुकल्पनानुपपत्तेः । तच्च बहुवित्त्वं भोजादीनामपि समानमिति तेषां विशेषादरणीयत्वमेव इति ।
'न खलु बहविदाम' इत्यस्य अन्योऽप्यर्थः । निर्मूलं खलू व्याकरणान्तराप्रामाण्यं बहुविदो न वदेयुः । एतदपेक्षया तावद् बहुविदां
विद्यारण्यादीनां तदकथनात् । तस्माद् बहग्रन्थवेदित्वाभावादेवायं प्रति१० वादी निल्लज्जमेव निर्मूलवाक्यं प्रलपतीत्युपहसनीयमेवेति ।
पूर्वव्याकरणादिमूलरहितं युक्त्यैव यत् साध्यते, कैश्चित् तत्र मुनित्रयाप्रतिहते हेयत्वमुद्घोष्यते । अन्येभ्यो गुणवत्तया च बहुभिर्यद् गृह्यते खल्विदं, तस्मात्खल्वयमन्यशास्त्रमखिलं मिथ्येति विभ्राम्यति ॥१२॥
१
इति ।
एवम् अस्माभिः व्याकरणान्तरप्रामाण्ये साधिते सति यत् पुनः परेण अप्रामाण्यसाधनं कृतं तदर्थात् गर्भस्रावेण गतमपि इदानीं प्रत्येकयुक्त्युपादानेन खण्डयते।
तत्र यत् तावदुक्तं शङ्कराचार्यप्रभृतिभिः श्रुतिव्याख्यानादिषु २. पाणिनीयमेव गृहीतमिति तस्यैव प्रामाण्यम्, अन्यव्याकरणानां व्याख्या
नागृहीतत्वाद् अप्रामाण्यमिति तदसारम् । शङ्कराचार्यमुरारिप्रभृतिभिरपि स्वप्रयोगमूलत्वेन व्याकरणान्तराणामङ्गीकारात् । व्याख्यानादिषु ग्रहणाग्रहणयोः बहुप्रसिद्धयल्पप्रसिद्धिनिबन्धनत्वेन प्रामाण्याप्रामा
ण्यप्रयोजकत्वाभावात् ; विद्यारण्यादिभिश्च 'कथापयत्यादिनिरूपणे, २५ प्रसादकारादिभिश्च तत्तद्वयाख्यानावसरे, नैषधव्याख्यातृविश्वेश्वरा
दिभिश्च 'अल्पमेधः' पदादिव्याख्याने, क्षीरस्वामी-सर्वानन्द-सुबोधिनीकारादिभिश्च अमरसिंहनिघण्टुव्याख्याने तत्र तत्र अङ्गीकृतत्वाद्, वेदनिघण्टुव्याख्यात्रा' च 'भोजसूत्रस्य' सर्वत्र अङ्गीकृतत्वात्,
व्याख्यानादिषु अपरिगृहीतत्वस्यापि असिद्धेः, पाणिनीयप्राक्काले च ३० तेषामेव प्रामाण्यमङ्गीकार्यम् ।
१. देवराजयज्वनेति भावः ।