________________
अपाणिनीय-प्रमाणता
न च सिद्धस्य प्रामाण्यस्य नाशे कारण मस्ति, इत्याद्युक्तमेव । यत्तु मुनित्रयवचनस्य एत एव साधशब्दा इति, नियमपरत्वाद् एतद्विरोधाद् अन्यशास्त्राणां त्याज्यत्वमुक्तम्, तदपि नियमस्य शास्त्र:वभावत्वे पाणिनिनियमितत्त्वाद्वातिकाप्रामाण्यं स्यादिति बहुधा परोक्तनियमपरत्वनिरसनाद् अपास्तमेव । विरोधे च एकमेव ग्राह्यमित्ये- ५ तच्च षोडशिग्रहणाग्रहणादौ 'स्मृतिचन्द्रिका'द्युक्तस्मृतिद्वयोक्तविकल्पनीयत्वे च व्यभिचरितमित्युक्तप्रायम् । विरोधश्च नियमाभावात् नास्तीत्युक्तम् । यत्तु व्यासोक्तानां प्रातिशाख्यरूपासाधारणव्याकरणमूलत्वमिति तदपि न, अपाणिनीयत्वसाम्येऽपि असाधारणव्याकरणानामिष्टत्वे साधारणेषु विद्वेषे च निमित्तं नास्ति इत्युक्तत्वात् । छान्दस- १० सूत्रैर् ‘एत एव वेदे साधवः' इति नियमितत्वेन परमते प्रातिशाख्य- ) प्रामाण्यस्यापि दुःसाध्यत्वात् च । यत्तु प्राचार्यसंकीर्तनस्य विकल्पाद्यर्थत्वेन उपपत्तेः, न तत्प्रामाण्यमङ्गीकृतमिति, तदपि न, मन्मतमेवं तन्मतमेवमिति तन्मतस्य प्रामाण्यानङ्गीकरणे विकल्पस्यैव प्रसिद्धेः। स्ववाग्विरुद्धत्वात् । न च संकीर्तनमात्रात् विकल्प उत्तिष्ठति, प्रामाण्या- १५ नङ गीकारे पूजार्थत्वं तु दुरापास्तम् । ___ यत्तु मीमांसादौ अनभिमताचार्यसंकीर्तनवदिदमुपपन्नमिति, तन्न, तत्र दृष्यत्वेनैव तन्मतोपादानात् । इह तु तदभावात् । न च तत् प्रमाणम् –'बादरायणस्यानपेक्षत्वात" इत्यादौ ग्राह्यतया संकीर्तनेऽपि देवताविग्रहवत्वादौ तन्मतस्य परित्यागदर्शनाद् अत्रापि तथा, २० इति वाच्यम् । तत्रापि मतभेदेन सर्ववैदिकपक्षाणां गृह्यमाणत्वदर्शनात् ।
यतु' कौमुदीकारादिभि: स्वबुद्धिविस्तारबोधनार्थमेवं मतान्तरप्रदर्शनं कृतं न तत्प्रामाण्यादिति तदप्यबद्धम् । अप्रमाणभूतस्य कथने एव बुद्धिमान्द्यस्यैव प्रकाशनप्रसङ गादिति । एवं परोक्तौ अस्मदुक्त- २५ विरुद्धोंऽशः खण्डितः।
ततोऽन्यग्रन्थसन्दोहेमदुक्तान्येव साधयन् । . 'वैनतेयो' ममात्यन्तं बन्धुरेवेति शोभनम् ॥१३॥
१. मीमांसा १।११५॥ २. प्रक्रियाकौमुदीकारादिभिरित्यर्थः ।