________________
संस्कृत व्याकरण-शास्त्र का इतिहास
५
अनुबन्धः हे श्रीमच्चोलदेशप्रथितबुधवराः ! शब्दशास्त्रान्तराणाम् कोऽप्यप्रामाण्यमूचे; किमपि निगदितं तत्र चास्माभिरेवम । कौमुद्यां धातुवृत्त्यादिषु कथितया वैदिकाङ गत्वसाम्याद् युष्माकं सम्मतं स्यादिति लिखितमिदं शोधयध्व महान्तः ॥१॥
श्री सोमेश्वरदीक्षिता'भिधमहाविद्वत्कुलाग्रेसरा ! मीमांसाद्वयशब्दतर्ककुशला ! युष्मानधृष्योन्नतीन् ! तत्त्वज्ञान् करुणानिधीन् प्रशमिनः श्रुत्वेदमभ्यर्थये, यत् किञ्चिल्लिखितं मयाऽत्र, तदिदं स्वीकार्यमार्यात्मभिः ।।२।। यस्माभिः खलु कामदेव'विजये व्यालेखि कक्ष्याक्रमम्, तं द्रष्टुभृशमुत्सुका वयमतः सम्प्रेष्यतां साम्प्रतम् । युष्मादृक्षविचक्षणोक्तिपदवीसंप्रेक्षणेन क्षणाद्, अस्माकं खलु बुद्धिशुद्धिरुदियादित्येष तत्राऽशयः ॥३॥ प्रयुक्तहेतौ सति कामदेवे कृतेऽस्य भङ्गः पटुदर्शनेन, सोमेश्वराख्याग्रहणस्य चैतत् सर्वज्ञभावस्य च युक्तरूपम् ॥४॥ युष्मद्वैदुष्यभूतं खलु कटकभुवि त्रायते भोगिराजम्, वाणीवेणीविघूतामपि सुरसरितं कङ्कटीको जटायाम् । इत्येवं 'यज्ञनारायणविबुधमहादीक्षिताः' ! शत्रुवर्गत्राणाद् देवस्य तस्याप्यहरदथ धिया साधु सर्वज्ञगवम् ॥५॥ युष्मास्वेव क्षितीशो विपुलनयनिधिस्तिष्ठते राज्यदृष्टी, तिष्ठध्वे यूयमेव प्रथितबुधजने सन्दिहाने समेते, युष्मभ्यं तिष्ठते कस्त्रिदशगुरुसमानोऽपि युष्मादृगन्यः, प्रज्ञालून यज्ञनारायणविबुधमहादीक्षितान् वीक्षते कः ? ॥६॥ अस्वस्थाः केरलस्थाः स्मयमतिमृदवस्तत्र चाहं विशेषात्, सर्वे दूरप्रचारे खलु शिथिलधियः, किं पुनर्दशभेदे; एवं भावेऽपि दैवात् कुहचन समये कल्यताऽकल्यते चेत्, प्रज्ञाब्धीन् यजनारायणविबुधमहादीक्षितानाक्षिताहे ॥७॥
॥ समाप्तिः-शुभं भूयात् ॥
२५
१. मुद्रित ग्रन्थ एव पठितोऽयमनुबन्धः ।