Book Title: Sanskrit Sopanam Part 01
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company

View full book text
Previous | Next

Page 77
________________ methvailaliwoY अध्यायः 26 त्रयः धूर्ताः ब्राह्मणः च स्था (तिष्ठ) अव+गम् (गच्छ) त्यज् पच् ब्राह्मणः धूर्त दूरे प्रथम अग्ने द्वितीय अपवित्र तृतीय एवम् एकः ब्राह्मणः गच्छति। सः अजम् नयति। त्रयः धूर्ताः ब्राह्मणम् पश्यन्ति । ते परस्परं वदन्ति–वयम् ब्राह्मणात् अजम् नेष्यामः। ते मार्गे दूरे दूरे तिष्ठन्ति। प्रथमः धूर्तः वदति- हे ब्राह्मण, कुक्कुरं किमर्थम् नयसि ? ब्राह्मणः वदति- हे मूर्ख-एषः कुक्कुरः न अस्ति, एषः तु अजः अस्तिः। ब्राह्मणः अग्रे गच्छति । तत्र द्वितीयः धूर्तः वदति-हे हे ब्राह्मण, किम् आचरसि ? अपवित्रम् कुक्कुरम् नयसि ? ब्राह्मणः वदति-किम् त्वम् न पश्यसि ? एषः तु अजः अस्ति ।अग्रे तृतीयःधूर्तः अपि एवम् वदति। तदा ब्राह्मणः अजम् कुक्कुरम् एव अवगच्छति। सः अजम् त्यजति गच्छति च। ___ धूर्ताः अजम् नयन्ति, पचन्ति खादन्ति च। Famasooad 970

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98