Book Title: Report On Search For Sanskrit MSS Year 1882 1883
Author(s): R G Bhandarkar
Publisher: Government Central Book Depot

View full book text
Previous | Next

Page 229
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 224 Acharya Shri Kailassagarsuri Gyanmandir APPENDIX II. -continued. विकारमन्यथा सविकारीति युक्त्या इदमपि च परं संसारादिकं विलसितं च क्षणदृष्टविनष्टं चेत्याकलय्य सर्वमप्यनित्यं निश्वित्य केवलो धर्मकीर्तिश्च तस्मात् परलोक सुखाय देवब्राह्मणान् गुरूंश्च सुवर्ण - रूप्याभरणवस्त्रादिभिः संपूज्य तन्निवासिनो ब्राह्मणोत्तमान् वियु - त्याधिकरणो ग्रामे जनपादान् मठस्थानाधिपतीन राजपुत्रांश्च दानेन कांश्चिद्वसनसन्मानेन कामलाप्य [?] संभाष्य च बोधयन् सर्वेषां विदितं शासनं चकार । अस्मिन् खेटकाधारपथके अमुकग्रामस्वसीमापर्यंत: सवृक्षमाकुलः सकाष्ठतृणोदकोपेतः सर्वस्वीयसी मोपेतो नवनिधानसहितः पूर्वरूढ्या पलमानदेवदायब्रह्मदायवर्जं श्रीदेवपत्तनवास्तव्यप्रत्यक्षजनकठ० अमुकाय श्री सोमेश्वरदेवस्य पंचोपचारस्नानपूजादिनैवेद्यादिनिमित्त अमुकपूर्वमस्माभिः शासने प्रदत्तः ॥ ग्राम्याघाटा यथा ॥ अयं चतुराघाटोपलक्षितं ग्रामं प्रदत्तमित्यवगम्य तन्निवासिभिर्ज्जनपदैर्ग्रामस्यास्य भोगकरहिरण्यादिकं सर्वमपि श्रीसोमनाथ देवस्य पूजार्थं प्रत्ययं जनकठ० अमुकाकस्य समर्पयितव्यं ॥ संपादनीयं च । सामान्यमत्पुण्यफलमेतदवगम्य मद्वंशजैरन्यैरापि भुवो भोक्तृभिरस्मत्प्रदत्तधर्मदायो ऽनुगंतव्यः ॥ पालनीयश्च ॥ उक्तं च ॥ भगवता व्यासेन || बहुभिर्वसुधा मुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमी तस्य तस्य तदा फलम् ॥ १ षष्टिर्वर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः । आछेत्ता चानुमंता च तान्येव नरकं वसेत् ॥ २ स्वदत्तां परदत्तां वा यो हरेच्च वसुंधरां । स विष्टायां कृमिर्भूत्वा पितृभिः सह मज्जति ॥ ३ इह हि जलदलीलाचंचले जीवलोके तृणतुषलघुसारे सारसंसारसारे । अपहरति दुराशःशासनं देवतानां नरकगहनगर्त्तावर्त्तपातो ध्रुवोयम् ॥ ४ दत्त्वा दानं भाविनः पार्थिवेद्रान् भूयो भूयो याचते रामचंद्रः । सामान्योऽयं दानधर्मो नृपाणां स्वे स्वे काले पालनीयो भवद्भिः ॥ ५ यानीह दत्तानि पुरा नरेंद्रैर्दानानि धर्मार्थयशस्कराणि । निर्माल्यवत [वान्त] प्रतिमानि तानि को नाम साधुः पुनराददीत ६ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235