Book Title: Ranakpurni Panch Tirthi
Author(s): Ambalal P Shah
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 145
________________ નાડોલના શિલાલેખો ૧૨૫ [३८] संवत् १२१३ वर्षे मार्गा वदि १० शुक्रे ॥ श्रीमदणहिल्लपाटके समस्तराजावलीसमलंकृतपरमभट्टारकमहाराजाधिराजपरमेश्वरउमापतिवरलब्धप्रसादप्रौढप्रतापनिजभुजविक्रमरणांगणविनिर्जितशाकंभरीभूपाल श्रीकुमारपालदेवकल्याणविजयराज्ये। तत्पादपद्मोपजीविनि महामात्यश्रीबाहडदेवश्रीश्रीकरणादौ सकलमुद्राव्यापारान् परिपंथयति यथा। अस्मिन् काले प्रवर्त्तमाने पोरित्य वोडाणान्वये महाराज श्रीयोगराजस्तदेतदीयसुतसंजातमहामंडलीक श्रीवत्सराजस्तदस्य सुतसंजाताऽनेकगुणगणालंकृत महामंडलीक श्रीमता प्रतापसिंह शासनं प्रयच्छति यथा । अत्र नदूलडागिकायां देवश्रीमहावीरचैत्ये तथाऽरिष्टनेमिचैत्ये शीलबंदडीग्रामे श्रीअजितस्वामिदेवचैत्ये एवं देवत्रयाणां स्वीयधर्मार्थे वदर्यमंडपिका मध्यात् समस्तमहाजनभट्टारकब्राह्मणादय प्रमुख प्रदत्त त्रिहाइको रूपक १ एकं दिन प्रति प्रदातव्यमदः । यः कोपि लोपयति स ब्रह्महत्यागोहत्यासहस्रेण लिप्यते । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं । बहुभिवसुधा भुक्ता राजभिः सगरादिभिः । यः कोपि वालयति तस्याहं पादलग्नस्तिष्ठामीति । गौडान्वये कायस्थ पण्डितमहीपालेन शासनमिदं लिखितं । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178