________________
નાડોલના શિલાલેખો
૧૨૫ [३८] संवत् १२१३ वर्षे मार्गा वदि १० शुक्रे ॥ श्रीमदणहिल्लपाटके समस्तराजावलीसमलंकृतपरमभट्टारकमहाराजाधिराजपरमेश्वरउमापतिवरलब्धप्रसादप्रौढप्रतापनिजभुजविक्रमरणांगणविनिर्जितशाकंभरीभूपाल श्रीकुमारपालदेवकल्याणविजयराज्ये। तत्पादपद्मोपजीविनि महामात्यश्रीबाहडदेवश्रीश्रीकरणादौ सकलमुद्राव्यापारान् परिपंथयति यथा। अस्मिन् काले प्रवर्त्तमाने पोरित्य वोडाणान्वये महाराज श्रीयोगराजस्तदेतदीयसुतसंजातमहामंडलीक श्रीवत्सराजस्तदस्य सुतसंजाताऽनेकगुणगणालंकृत महामंडलीक श्रीमता प्रतापसिंह शासनं प्रयच्छति यथा । अत्र नदूलडागिकायां देवश्रीमहावीरचैत्ये तथाऽरिष्टनेमिचैत्ये शीलबंदडीग्रामे श्रीअजितस्वामिदेवचैत्ये एवं देवत्रयाणां स्वीयधर्मार्थे वदर्यमंडपिका मध्यात् समस्तमहाजनभट्टारकब्राह्मणादय प्रमुख प्रदत्त त्रिहाइको रूपक १ एकं दिन प्रति प्रदातव्यमदः । यः कोपि लोपयति स ब्रह्महत्यागोहत्यासहस्रेण लिप्यते । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं । बहुभिवसुधा भुक्ता राजभिः सगरादिभिः । यः कोपि वालयति तस्याहं पादलग्नस्तिष्ठामीति । गौडान्वये कायस्थ पण्डितमहीपालेन शासनमिदं लिखितं ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org