Book Title: Ranakpurni Panch Tirthi
Author(s): Ambalal P Shah
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 144
________________ ૧૨૪ રાણકપુરની પંચતીથી क्षोणितले प्रसिद्धः । कृतः कुमारी निजराज्यधारः श्रीकल्हणः सर्वगुणैरुपेतः ॥८॥ आभ्यां राजकुलश्रोआल्हणदेवकुमारश्रीकेल्हजदेवाभ्यां राजपुत्रश्रीकीर्तिपालस्य प्रसादे दत्तनडूलाईप्रतिबद्धद्वादशनामस्ततो राजपुत्र श्रीकीर्तिपालः । संवत् १२१८ श्रावण बदि ५ सोमे ॥ अद्येह श्रीनडुले स्नात्वा धौतवाससी परिधाय तिलाक्षतकुशप्रणयिनं दक्षिणकरं कृत्वा देवानुदकेन संतमे, बहलतमतिमिरपटलपाटनपटीयसो निःशेषपातकपंकप्रक्षालनस्य दिवाकरस्य पूजां विधाय, चराचरगुरुं महेश्वरं नमस्कृत्य, हुतभुजि होमद्रव्याहुतीर्दत्त्वा नलिनीदलगतजललवतरलं जीवितव्यमाकलय्य, ऐहिकं पारत्रिकं च फलमंगीकृत्य स्वपुण्ययशोभिवृद्धये शासनं प्रयच्छति यथा ॥ श्रीनडूलाईग्रामे श्रीमहावीरजिनाय नडूलाईद्वादशग्रामेषु ग्राम प्रति द्रम्मौ स्नपनविलेपनदोपधूपोपभोगार्थ, शासने वर्ष प्रति भाद्रपदमासे चंद्राक क्षितिकालं यावत् प्रदत्तौ॥नड्डूलाई ग्राम । सूजेर । हरिजो । कविलाडं । सोनाणं । मोरकरा । हरबंदं । माडाड । काणासुवं । देवसूरो । नाडाड मउवड़ो । एवं ग्रामाः एतेषु द्वादशग्रामेषु सर्वदाप्यस्माभिः शासने दत्तौ। एभिमरधुना संवत्सरं लगित्वा सर्वदापि वर्ष प्रति भाद्रपदे दातव्यौ । अत ऊर्व केनापि परिपंथना न कर्त्तव्या। अस्मद्वंशे व्यतिक्रांते योऽन्य[:] कोपि भविष्यति तस्याहं करे लग्नो न लोप्यं मम शासनं । षष्टिवर्षसहस्राणि स्वर्गे तिष्ठति दायकः, आच्छेत्ता चानुमंता च तान्येव नरकं वसेत् ।। बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ॥ स्वहस्तोयं महाराजपुत्रश्रीकीर्तिपालस्य ॥ नैगमान्वयकायस्थसाढनप्ता शुभंकरः दामोदर मुतोलेखि शासनं धर्मशासनं ।। मंगलं महाश्रीः ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178