Book Title: Ram Charitram Author(s): Devvijay Gani Publisher: Shravak Hiralal Hansraj View full book textPage 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ६ राम - लितं नदीवेग व मार्गवर्तिनि पर्वते, तदा श्रीकंठस्य राज्ञो मनसि महादुःखं संजातं, यहो ! म जन्मनि तपो न तेपे, येन मे नंदीश्वरयावामनोरथो नापूर्यत. ततस्तेन दुःखेन निर्वेदमा - पन्नः सन् स साधुसमीपे दीक्षां कीचक्रे, तीव्रं तपस्तप्त्वा च सिद्धिक्षेत्र मियाय सः श्रीकंठपुलो व ज्रकंठः, एवमसंख्येषु नृपेषु गतेषु तत्पट्टे श्री मुनिसुव्रतस्वामिती घनोदधिरय इति नाम्ना राजानृत्, लंकापुर्यामपि तदा कीर्तिधवलादसंख्येषु नृपेषु गतेषु तडित्केशनामा राजा जज्ञे श्रीमुनिव्रतस्वामितीर्थे. तयोर्लका किष्कंधेशयोः परस्परं स्नेहो जज्ञे . एकस्मिन दिने तत्केशो लंकाधीशः सपरिवारः क्रीडां कर्तुं नंदनवने गतः तत्र वने जलकेब्यांदोलनादिषु प्रवृत्ते राशि कश्चित्कपिमात्समुत्तीर्य श्रीचंद्रायाः पट्टराश्याः कुचौ नखैर्विलिलिखे. तद् दृष्ट्वा तडित्केशो वानरं बाणेन जघान, यतोऽसह्यो हि स्त्रीपराजवः सोऽपि वानरो बालप्रहारविधुरः कचिद्गत्वैकस्य साधोः प्रतिमास्थस्याग्रे पपात, सोऽपि साधुस्तस्मै वानराय नमस्कारप्रदा नेन परलोकसंबलं दत्तवान् सोऽपि वानरो नमस्कारप्रभावेणान्धिकुमारेषु जुवनपतिदेवेषु देवो जातः तत्रावधिज्ञानेन ज्ञात्वा तमुपकारिणं मुनिमुपेत्य वंदित्वा स्तुत्वा च स तस्याग्रे नृत्यं चक्रे . Acharya Shn Kailassagarsuri Gyanmandir For Private And Personal Use OnlyPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 367