Book Title: Raichandra Jain Shastra Mala Panchastikaya Samay Sara
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
रायचन्द्रजैनशास्त्रमालायाम् निवृत्तेषु जीवस्य देवादिपर्यायेष्वेकस्मिन् स्वकारणनिर्वृत्तौ निर्वृत्तेऽभूतपूर्व एव चान्यस्मिन्नुत्पन्ने नौसदुत्पत्तिः । तथा दीर्घकालान्वयिनि ज्ञानावरणादिकर्मसामान्योदयनिर्वृत्तिसंसारित्वपर्याये भव्यस्य स्वकारणनिवृत्तौ निवृत्ते समुत्पन्ने चाभूतपूर्व सिद्धत्वपर्याये नासदुत्पत्तिरिति । किंच यथा द्राधीयमि वेणुदण्डे व्यवहिताव्यवहितविचित्रकिम्भरताखचिताधस्तनार्द्धभागे एकान्तव्यवहितसुविशुद्धोद्धभागेऽवतारिता दृष्टिः समन्ततो विचित्रचित्रकिमरिताव्याप्तिं पश्यन्ती समर्नुमिनोति तस्य सर्वत्रीविशुद्धत्वम् । तथा क्वचिदपि जीवद्रव्ये व्यवहिताव्यवहितज्ञानावरणादिकमकिमरिताखचितबहुतराधस्तनार्द्धभागे एकान्तव्यवहितसुविशुद्धबहुतरोप्रभागेऽवतारिता बुद्धिः समन्ततो ज्ञानावरणादिकर्मकिरिताव्याप्ति व्यवस्यन्ती समनुमिनोति तस्य सर्वत्राविशुद्धत्वम् । यथा च तत्र वेणुदण्डे व्याप्तिज्ञानाभासनिबन्धनविचिकिमरितान्वयः । तथा च कचिज्जीवद्रव्ये ज्ञानावरणादिकर्मकिमरितान्वयः । यथैव च तत्र वेणुदण्डे विचित्रचित्रकिरिताभावात्सुविशुद्धत्वं । तथैव च ऋचिज्जीवद्रव्ये ज्ञानावरणादिकर्मकिरितान्वयाभावादाप्तागमसम्यगनुमानातीन्द्रियज्ञानपरिच्छिन्नासिद्धत्वमिति ॥
[२१] जीवस्योत्पादव्ययसदुच्छेदासदुत्पादकर्तृत्वोपपत्त्युपसंहीरोऽयं । द्रव्यं हि सर्वदाऽविनष्टानु. त्पन्नमाम्नातं । ततो जीवद्रव्यस्य द्रव्यरूपेण नित्यत्वमुपन्यस्तं । तस्यैव देवादिपव्यरूपेण प्रादुर्भवतो भौवकर्तृत्वमुक्तं । तस्यैव च मनुष्यादिपव्यरूपेण व्ययतो भावकर्तृत्वमाख्यातं । तस्यैव च सतो देवादिपर्यायस्योच्छेदमारभमाणस्य भावाभावकर्तृत्वमुपपादितं । तम्यैव चासतः पुनर्मनुष्यादिपर्यायस्योत्पादमारभमाणस्याभावभावकर्तृत्वमभिहितं । सर्वमिदमनवयं द्रव्यप-याणामन्यतरगुणमुख्यत्वेन व्याख्यानात् । तथा हि यदा जीवः पर्यायेंगुणत्वेन द्रव्यमुख्यत्वेन विवक्ष्यते तदा नोत्पद्यते न विनश्यति न च क्रमवृत्त्या वर्तमानत्वात् सत्पर्य्यायजातमुच्छिनत्ति नासदुत्पादयति । यदा तु द्रव्यगुणत्वेन पर्य्यायमुख्यत्वेन विवक्ष्यते तदा प्रादुर्भवति विनश्यति सत्पर्य्यायजातमतिवाहितस्वकालमुच्छिनत्ति
असदुपस्थितं स्वकालमुत्पादयति चेति । स खल्वयं प्रसादोऽनेकान्तवादस्य यदीदृशोऽपि विरोधो न विरोधः । इति षड्द्रव्यसामान्यप्ररूपणा ।।
[२२] अत्र सामान्येनोक्तलक्षणानां पण्णां द्रव्याणां मध्यात् पञ्चानामस्तिकायत्वम् व्यवस्थापितम् । अकृतत्वात् अस्तित्वमयत्वात् विचित्रात्मपरिणतिरूपस्य लोकस्य कारणत्वाचाभ्युपगम्यमानेषु पट्सु द्रव्येषु जीवपुद्गलाकाशधर्माधर्माः प्रदेशप्रचयात्मकत्वात् पञ्चास्तिकायाः। न खलु कॉलस्तदभावादस्तिकाय इति सामर्थ्यादेवसीयत इति ॥
[२३] अत्रास्तिकायत्वेनानुक्तस्यापि कालस्यार्थापन्नत्वं द्योतितं । इह हि जीवानां पुद्गलानां च सत्तास्वभावत्वादस्ति प्रतिक्षणमुत्पादव्ययध्रौव्यैकवृत्तिरूपः परिणामः । स खलु सहकारिकारण
१ निष्पन्नेयु. २ पाये. ३ अविद्यमानोत्पत्तिन. ४ वहुकालानुवर्तिनि. ५ अतिक्रान्ते. ६ विनाशं गते सति. ७ पूर्वमनुत्पने. ८ आच्छादितानाच्छादितः. ९ आरोपिता. १० अनुमानं करोति संकल्पयति प्रमाणयति वा. ११ वेणुदण्डस्य. १२ सर्वस्मिन्नूर्वाधोभागे. १३ प्रलिप्तत्वम्. १४ चिन्तयन्ती. १५ अनुमानं करोति. १६ तस्य जीवस्य. १७ सर्वस्मिन् जीवद्रव्यज्ञानावरणादित्वम्. १८ चित्ररचनासंतानः. १९ पर्यायाभावान्वयः इति पाठान्तरम्. २० अभिप्रायः. २१ तस्य जीवस्य. २२ पायोत्पादकत्वमुक्तम्. २३ अविद्यमानस्य. २४ गौणत्वेन. २५ उच्छेदयति. २६ असद्रूपेणावस्थितम्. २७ कालः खल्वस्तिकाय इति बलात्कारेणाङ्गीक्रियते न व्यवह्रियते इत्यर्थः. २८ प्रदेशप्रचयात्मकस्याभावात् कायत्वाभावात्. २९ निश्चीयते. ३० स परिणामः

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157