Book Title: Raichandra Jain Shastra Mala Panchastikaya Samay Sara
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 126
________________ रायचन्द्रजैनशास्त्रमालायाम् द्रव्यापिणायामनुत्पादमनुच्छेदं सत्स्वभावमेव द्रव्यं । तदेव पर्यायापिणायां सोत्पादं सोच्छेदं चावबोद्धव्यम् । सर्वमिदमनवद्यश्च द्रव्यपार्यायाणामभेदात् ॥ [१२] अत्र द्रव्यपर्यायाणामभेदो निर्दिष्टः । दुग्धदाधिनवनीतघृतादिवियुतगोरसवत्पर्यायविद्युत द्रव्यं नास्ति । गोरसवियुक्तदुग्धदधिनवनीतघृतादिवट्ठव्यवियुक्ताः पर्याया न सन्ति । ततो द्रव्यस्य पर्या याणाश्चादेशवशात्कथंचिद् भेदेऽप्ये कास्तित्वनियतत्वादन्योन्याजहद्वृत्तीनाम् वस्तुत्वेनाभेद इति ॥ [१३ ] अत्र व्यगुणानामभेदो निर्दिष्टः । पुद्गलभूतस्पर्शरसगन्धवर्णवद्रव्येण विना न गुणाः संभवन्ति । स्पर्शरसगन्धवर्णपृथग्भूतपुद्गलवद्गुणैर्विना द्रव्यं न संभवति । ततो द्रव्यगुणानामप्यादेशात् कथंचिद्भेदेऽप्येकास्तित्वनियतत्वादन्योन्याजहद्वृत्तीनां वस्तुत्वेनाभेद इति ॥ [१४] अत्र द्रव्यस्यादेशवशेनोक्ता सप्तभङ्गी । स्यादस्ति द्रव्यं स्यान्नास्ति द्रव्यं स्यादस्ति च नास्ति च द्रव्यं स्यादवक्तव्यं द्रव्यं स्यादस्ति चावक्तव्यं स्यान्नास्ति चावक्तव्यं च द्रव्यं स्यादस्ति च नास्ति चावक्तव्यमिति । अत्रै सर्वथात्वनिषेधकोऽनैकान्तिको द्योतकः कथंचिदर्थ स्थाच्छब्दो निपातः । तत्र स्वद्रव्यक्षेत्रकालभावैरादिष्टमस्ति द्रव्यं । परद्रव्यक्षेत्रकालभावैरादिष्टं नास्ति द्रव्यं । स्वद्रव्यक्षेत्रकाल. भावैः परद्रव्यक्षेत्रकालभावैश्च क्रमेणादिष्टमस्ति च नास्ति च द्रव्यं स्वद्रव्यक्षेत्रकालभावैः परद्रव्यक्षेत्रकालभावश्च युगपदादिष्टमवक्तव्यं द्रव्यं । स्वद्रव्यक्षेत्रकालभावयुगपत्स्वपरद्रव्यक्षेत्रकालभावैश्वादिष्टमस्ति चावक्तव्यञ्च द्रव्यं । परद्रव्यक्षेत्रकालभावैश्च युगपत्स्वपरद्रव्यक्षेत्रकालभावैश्चादिष्टं नास्ति चावक्तव्यं द्रव्यं । स्वद्रव्यक्षेत्रकालभावैः परद्रव्यक्षेत्रकालभावैश्च युगपत्स्वपरद्रव्यक्षेत्रकालभावैश्वादिष्टमस्ति च नास्ति चावक्तव्यं च द्रव्यमिति । नचैतदनुपर्पन्नम् । सर्वस्य वस्तुनः स्वरूपादिना अशून्यत्वात्पररूपादिना शून्यत्वात् । उभाभ्यामशून्यशून्यत्वात् सहावाच्यत्वात् भैङ्गसंयोगार्पणायामशून्यावाच्यत्वात् शून्यावाच्यत्वात् अशून्यशून्यावाच्यत्वाचेति ॥ १४ ॥ [१५] अत्रासंत्प्रादुर्भावमुत्पादस्य सदुच्छेदत्वं विगमय निषिद्धं । भविस्य सतो हि द्रव्यस्स न ट्रेव्यत्वेन विनाशः । अभावस्यासतोऽन्यद्रव्यस्य न द्रव्यत्वेनोत्पादः । किं तु भावाः सन्ति द्रव्याणि सदुच्छेदमसदुत्पादं चान्तरेणैव गुणपर्यायेषु विनाशमुत्पादं चारभन्ते । यथा हि घृतोत्पत्तो गोरसस्स सतो न विनाशः न चापि गोरसव्यतिरिक्तस्यार्थान्तरस्यासतः उत्पादः किंतु गोरसस्यैव सदुच्छेदमसदुत्पादश्चानुपलभ्यमानस्य स्पर्शरसगन्धवर्णादिषु परिणामिषु गुणेषु पूर्वावस्थया विनश्यत्सूत्तरावस्थया प्रादुर्भवत्सु नश्यति च नवनीतप-यो घृतपर्याय उत्पद्यते तथा सर्वभावानामपीति ॥ १५ ॥ [१६] अत्रं भावगुणपर्यायाः प्रज्ञापिताः। भावा हि जीवादयः षटू पदार्थाः। तेषाम् गुणाः पर्यायाश्च १ शुद्धद्रव्यार्थिकनयेन नरनारकादिविभावपरिणामोत्पत्तिविनाशरहितम्. २ निश्चयनयेन. ३ रहितम्. ४ द्रव्यरहिताः. ५ द्रव्यगुणयोरभिन्नसत्तानिष्पनत्वेनाभिन्नद्रव्यत्वात् अभिन्नप्रदेशनिष्पनत्वेनाभिनक्षेत्रलात. ६ निश्चयनयेन. ७ सप्तभङ्गयां. ८ स्याद्वादस्वरूपेऽस्तिनास्तिकथने. ९ तच्च स्वद्रव्यचतुष्टयं शुद्धजीवविषये कथ्यते, शुद्धपर्यायाधारभूतं द्रव्यं भण्यते, लोकाकाशप्रमितशुद्धासंख्येयप्रदेशाः क्षेत्रं, भण्यते वर्तमानशुद्धपायरूपपरिणतो वर्तमानसमयकालो, भण्यते शुद्धचैतन्यभावश्चेत्युक्तलक्षणद्रव्यादिचतुष्टयः. १० अयुक्तम्. ११ अस्तित्वात. १२ नास्तिवात. १३ अस्तिनास्तिरूपेण सह एकस्मिन्समावेशशून्यखात्. १४ द्वाभ्या अस्तिनास्तिभ्यां अस्तिनास्तित्वात्. १५ अस्तिनास्त्यादिभङ्गयां योज्यमानायाम्. १६ व्ययस्य विनाशस्य वा. १७ भावस्येति पदस्य कोऽर्थः । तद्यथा-सतो हि द्रव्यस्येत्यनेन विद्यमानस्य द्रव्यत्वेन न विनाश इत्यर्थः. १८ अप्राप्यमाणस्य. १९ द्रव्यगुणपर्यायाः.

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157