Book Title: Raichandra Jain Shastra Mala Panchastikaya Samay Sara
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 142
________________ रायचन्द्रजैनशास्त्रमालायाम् अथाकाशद्रव्यास्तिकायव्याख्यानम्[९० ] आकाशस्वरूपाख्यानमेतत् । पद्रव्यात्मके लोके सर्वेषां शेपेद्रव्याणां यत्समस्तावकाशनिमित्तं विशुद्धक्षेत्ररूपं तदाकाशमिति ॥ [ ९१] लोकाद्वहिराकाशसूचनेयं । जीवादीनि शेपव्याण्यवधृतपरिमाणत्वाल्लोकादनन्यान्येव । आकाशं त्वनन्तत्वाल्लोकादनन्यदन्यच्चेति ॥ [९२ ] आकाशस्यावकाशकहेतोगतिस्थितिहेतुत्वशङ्कायां दोपोपन्यासोऽयम् । यदि खल्वाकाशमवगाहिनामवगाहहेतुर्गतिस्थितिमतां गतिस्थितिहेतुरपि स्यात् , तदा सर्वोत्कृष्टस्वाभाविकोर्ध्वगातिपरिणता भगवन्तः सिद्धा बहिरङ्गान्तरङ्गसाधनसामग्र्यां सत्यामपि कुतस्तत्राकाशे तिष्ठन्त इति ॥ [ ९३ ] स्थितिपक्षोपन्यासोऽयम् । यतो गत्वा भगवन्तः सिद्धाः लोकोपयवतिष्ठन्ते, ततो गतिस्थितिहेतुत्वमाकाशे नास्तीति निश्चेतव्यम् । लोकालोकावच्छेदको धर्माधीवेब गतिस्थितिहेतू मन्तव्याविति ॥ [९४ ] आकाशस्य गतिस्थितिहेतुत्वाभावे हेतूपन्यासोऽयम् । नाकाशं गतिस्थितिहेतु लोकालोकसीमव्यवस्थायास्तथोपपत्तेः । यदि गतिस्थित्योराकाशमेव निमित्तमिष्येत् , तदा तस्यै सर्वत्र सद्भावाजीवपुद्गलानां गतिस्थित्योनिःसीमत्वात्प्रतिक्षणमलोको हीयते । पूर्व पूर्व व्यवस्थाप्यमानश्चान्तो लोकसोत्तरोत्तरपरिवृद्ध्या विघटते । ततो न तत्रं तद्धेतुरिति ॥ [९५] आकाशस्य गतिस्थितिहेतुत्वनिरासव्याख्योपसंहारोऽयम् । धर्माधर्मावेव गतिस्थितिकारणेनाकाशमिति ॥ [९६] धर्माऽधर्माऽलोकाकाशानामवगाहवशादेकत्वेऽपि वस्तुत्वेनान्यत्वमत्रोक्तम् । धर्माधर्मालोकाकाशानि हि समानपरिमाणत्वात्सहावस्थानमात्रेणेवैकत्वभाञ्जि । वस्तुतस्तु व्यवहारेण गतिस्थित्यवगाहहेतुत्वरूपेण निश्चयेन विभक्तप्रदेशत्वरूपेण विशेषेण पृथगुपलभ्यमानेनान्यत्वभाज्येव मवन्तीति ॥ इत्याकाशद्रव्यास्तिकायव्याख्यानम् । अथ चूलिका। [९७ ] अत्र द्रव्याणां मूर्तामूर्तत्वं चेतनाचेतनत्वं चोक्तम् । स्पर्शरसगन्धवर्णसद्भावस्वभावं मूर्त । स्पर्शरसगन्धवर्णाऽभावस्वभावममूर्त, चैतन्यसद्भावस्वभावं चेतनं । चैतन्याभावस्वभावमचेतनं । तत्रामूर्तमाकाशं, अमूर्तः कालः, अमूर्तः स्वक्षेपण जीवः, पररूपवेिशान्मूर्तोऽपि अमूर्ती धर्मः, अमूर्तीऽधर्मः, मूर्तः पुद्गल एवैक इति । अचेतनमाकाशं, अचेतनः कालः, अचेतनो धर्मः, अचेतनोऽधर्मः, अचेतनः पुद्गलः, चेतनो जीव एवैक इति ॥ [ ९८ ] अत्र सक्रियत्वनिष्क्रियत्वमुक्तम् । प्रदेशान्तरप्राप्तिहेतुः परिस्पन्दनरूपपर्यायः क्रिया । तत्र सक्रिया बहिरङ्गसाधनेन सहभूताः जीवाः । सक्रिया बहिरङ्गसाधनेन सहभूताः पुद्गलाः । निष्क्रियमाकाशं, निष्क्रियो धर्मः, निष्क्रियोऽधर्मः, निष्क्रियः कालः । जीवानां सक्रियत्वस्य बहिरङ्गसाधनं १ पन्नद्रव्याणाम् . २ जीवपुद्गलानाम् . ३ आकाशस्य. ४ लोकस्यान्तो. ५ आकाशे. ६ गमनस्थिलोः कारणं न. ७ खभावेन. ८ कर्मनोकर्मसंयोगात्.

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157