Book Title: Raichandra Jain Shastra Mala Panchastikaya Samay Sara
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
२५
पञ्चास्तिकायसमयसारस्य टीका । [१०६ ] मोक्षमार्गस्यैव तावत्सूचनेयम् । सम्यक्त्वज्ञानयुक्तमेव नासम्यक्त्वज्ञानयुक्तं, चारित्रमेव नाचारित्रं, रागद्वेषपरिहीणमेव न रागद्वेषापरिहीणम्, मोक्षस्यैव न भावतो वैन्धस्य, मार्ग एव नामार्गः, भव्यानामेव नाभव्यानां, लब्धबुद्धीनामेव नालव्धबुद्धीनां, क्षीणकपायत्वे भवत्येव, न कपायसहितत्वे भवतीत्यष्टधा नियमोऽत्र द्रष्टव्यः ॥
[१०७ ] सम्यग्दर्शनज्ञानचारित्राणां सूचनेयम् । भावाः खलु कालकलितपञ्चास्तिकायविकल्परूपा नव पदार्थास्तेषां मिथ्यादर्शनोदयापादिताश्रद्धानाभावस्वभावं, भावान्तरश्रद्धानं, सम्यग्दर्शनं शुद्धचैतन्वरूपात्मतत्वविनिश्चयवीजम् । तेषामेव मिथ्यादर्शनोदयान्नौया संस्कारादिस्वरूपविपर्ययेणाध्यवसीयमानानां तन्निवृत्तौ समञ्जसाऽध्यवसायः । सम्यक्ज्ञानं मनाक्ज्ञानचेतनाप्रधानात्मतत्त्वोपलम्भवीजम् । सम्यग्दर्शनज्ञानसन्निधानादमार्गेभ्यः समग्रेभ्यः परिच्युत्य स्वतत्त्वे विशेषेण रूढमार्गाणां सतामिन्द्रियानिन्द्रियविषयभूतेष्वर्थेषु, रागद्वेषपूर्वकविकाराभावान्निर्विकारावबोधस्वभावः समभावश्चारित्रं तदात्वायतिरमणीयमनणीयसोऽपुनर्भवसौख्यस्यैकवीजम् । इत्येष त्रिलक्षणो मोक्षमार्गः पुरस्तान्निश्चयव्यवहाराभ्यां व्याख्यास्यते । इह तु सम्यग्दर्शनज्ञानयोर्दर्शनज्ञानयोर्विषयभूतानां नवपदार्थानामुपोद्घातहेतुत्वेन सूचित इति ॥
[१०८] पदार्थानां नामस्वरूपाभिधानमेतत् । जीवः, अजीवः, पुण्यं, पापं, आस्रवः, संवरो, निर्जरा, वन्धः, मोक्ष इति नवपदार्थानां नामानि । तत्र चैतन्यलक्षणो जीवास्तिकाय एवेह जीवः । चैतन्याभावलक्षणोऽजीवः । स पञ्चधा पूर्वोक्त एव पुद्गलास्तिकः, आकाशास्तिकः, धर्मास्तिकः, अधर्मास्तिकः, कालद्रव्यश्चेति । इमौ हि जीवाजीवौ पृथग्भूताऽस्तित्वनिर्वृत्तत्वेन भिन्नस्वभावभूतौ मूलपदार्थों । जीवपुद्गलसंयोगपरिणामनिवृत्ताः सप्ताऽन्ये च पदार्थाः । शुभपरिणामो जीवस्य, तन्निमित्त कर्मपरिणामः पुद्गलानाञ्च पुण्यम् । अशुभपरिणामो जीवस्य, तन्निमित्तः कर्मपरिणामः पुद्गलानाञ्च पापम् । मोहरागद्वेषपरिणामो जीवस्य, तन्निमित्तः कर्मपरिणामो योगद्वारेण प्रविशतां पुद्गलानाश्चास्रवः । मोहरागद्वेषपरिणामनिरोधो जीवस्य, तन्निमित्तः कर्मपरिणामनिरोधो योगद्वारेण प्रविशतां पुद्गलानाञ्च संवरः । कर्मवीर्यशातनसमर्थो बहिरङ्गान्तरङ्गतपोभिवृहितशुद्धोपयोगो जीवस्य, तदनुभीवनीरसीभूतानामेकदेशसंक्षयः समुपात्तकर्मपुद्गलानाञ्च निर्जरा । मोहरागद्वेषस्निग्धपरिणामो जीवस्य, तन्निमित्तेन कर्मत्वपरिणतानां जीवेन
१ खात्मोपलब्धिरूपस्य. २ शुद्धात्मानुभूतिप्रच्छादकवन्धस्य. ३ कथंभूतं सम्यग्दर्शनं शुद्धचैतन्यस्ख. रूपात्मतत्वविनिश्चयवीजम् . ४ नवपदार्थानामेव. ५ यथा नौयानसंस्कारादिस्वरूपविपर्ययेणेत्यनेन नावि स्थितस्य खस्य गमनं न दृश्यते । अन्येषां स्थिरीभूतानां सर्वपां वृक्षपर्वतादीनां गमनं दृश्यते । कुतः खसारादिखस्पविपर्ययात् । अनेन संस्कारादिखरूपविपर्यायेण अध्यवसीयमानानां निश्चीयमानानां, तथा मियादर्शनोदयात् वरूपविपर्ययेण गृहीतानां नवपदार्थानाम् . ६ पुनः तनिवृत्ती मिथ्यादर्शननिवृत्ती सत्याम्. ७ सम्यग्निर्णयः. ८ कथंभूतं सम्यग्ज्ञानं मनाक् ज्ञानचेतनायाः प्रधानात्मतत्त्वोपलम्भवीजम् . ९ मार्ग आरूढानां तिष्टतां. १० कथंभूतं चारित्रं तदात्वायतिरमणीयं वर्तमाने उत्तरकाले च रमणीयं सुखदायक। पुनः कीदृशम् अनीयसः अपुनर्भवसौग्न्यस्यैकबीजं । अनणीयसः महतः अपुनर्भवसौख्यस्य मोक्षस्य एकं वीजम् । १६ भावपुष्पम् . १२ तदेव भावपुप्पं निमित्तं कारणं यस्य सः. १३ कर्माष्टकपर्य्यायः द्रव्यपुण्यं. १४ वपित-. १५ तस्य शुद्धोपयोगस्य अनुभावं प्रभावं तेन कारणेन रसरहितानां समुपात्तकर्मपुद्गलानां च निर्जरा ज्ञातव्या.

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157