Book Title: Raichandra Jain Shastra Mala Panchastikaya Samay Sara
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
१४
रायचन्द्रजैनशास्त्रमालायाम् यत्राश्रितास्तव्यम् । तच्चेदन्यद् गुणेभ्यः। पुनरपि गुणाः क्वचिदाश्रिताः । यत्राश्रितास्तद्रव्यं । तदपि अन्यच्चेद्नुणेभ्यः । पुनरपि गुणाः कचिदाश्रिताः। यत्राश्रिताः तद्रव्यम् । तदप्यन्यदेव गुणेभ्यः । एवं द्रव्यस्य गुणेभ्यो भेदे भवति द्रव्यानन्त्यम् । द्रव्यं हि गुणानां समुदायः । गुणाश्चदन्ये समुदायात् , कोनाम समुदायः । एवं गुणानां द्रव्याद भेदे भवति द्रव्याभाव इति ॥
[४५ ] द्रव्यगुणानां स्वोचितानन्य वोक्तिरियम् । अविभक्तप्रदेशत्वलक्षणं द्रव्यगुणानामनन्यत्वमभ्युपैगम्यते । विभक्तप्रदेशत्वलक्षणं त्वन्यत्वमनन्यत्वं च नाभ्युपगम्यते । तथा हि-यथैकस्य परमाणोरेकेनात्मप्रैदेशेन सह विभक्तत्वादनन्यत्वं । तथैकस्य परमाणोस्तद्वर्तिनां स्पर्शरसगन्धवर्णादिगुणानां चाविभक्तप्रदेशत्वादनन्यत्वं । यथा त्वत्यन्तविप्रकृष्टयोः सह्यविन्ध्ययोरत्यन्तसन्निकृष्टयोश्च मिश्रितयोस्तोयपयसोर्विभक्तप्रदेशत्वलक्षणमन्यत्वमनन्यत्वं च । न तथा द्रव्यगुणानां विभक्तप्रदेशत्वाभावादन्यत्वमनन्यत्वं चेति ॥
[४६ ] व्यपदेशादीनामेकान्तेन द्रव्यगुणान्यत्वनिवन्धनत्वमत्र प्रत्याख्यातम् । यथा देवदत्तस्य गौरित्यन्यत्वे षष्ठीव्यपदेशः, तथा वृक्षस्य शाखा द्रव्यस्य गुणा इत्यनन्यत्वेऽपि । यथा देवदत्तः फलमङ्कुशेन धनदत्ताय वृक्षाद्वाटिकायामवचिनोतीत्यन्यत्वे कारकव्यपदेशः । तथा मृत्तिका घटभावं स्वयं स्वेन स्वस्मै स्वस्मात् स्वस्मिन् करोतीत्याऽऽत्माऽऽत्मानमात्मनाऽऽत्मने आत्मन आत्मनि जानातीत्यनन्यत्वेऽपि । यथा प्रांशोदेवदत्तस्य प्रांशुगौरित्यन्यत्वे संस्थानं । तथा प्रांशोवृक्षस्य 'पांशुः शाखाभरो, मूर्तद्रव्यस्य मूर्ता गुणा इत्यनन्यत्वेऽपि । यथैकस्य देवदत्तस्य दश गाव इत्यन्यत्वे संख्या । तथैकस्य वृक्षस्य दश शाखाः, एकस्य द्रव्यस्यानन्ता गुणा इत्यनन्यत्वेऽपि । यथा 'गोठे गाव इत्यन्यत्वे विषयः । तथा वृक्षे शाखाः, द्रव्ये गुणा इत्यनन्यत्वेऽपि । ततो न व्यपदेशादयो द्रव्यगुणानां वस्तुत्वेन भेदं साधयन्तीति॥
[४७ ] वस्तुत्वभेदाभेदोदाहरणमेतत्। यथा धनं भिन्नास्तित्वनिवृत्तम् भिन्नास्तित्वनिवृत्तस्य, भिन्नसंस्थानं भिन्नसंस्थानस्य, भिन्नसंख्यं भिन्नसंख्यस्य, भिन्नविषयलव्धवृत्तिकं भिन्नविषयलब्धवृत्तिकस्य, पुरुषस्य धनीति व्यपदेशं पृथक्त्वप्रकारेण कुरुते । यथा च ज्ञानमभिन्नास्तित्वनिवृत्तमभिन्नास्तित्वनिर्वृत्तस्याभिन्नसंस्थानं अभिन्नसंस्थानस्याभिन्नसंख्यमभिन्नसंख्यस्याभिन्नविषयलब्धवृत्तिकमभिन्नविषयलव्धवृत्तिकस्य पुरुषस्य ज्ञानीति व्यपदेशमेकत्वप्रकारेण कुरुते । तथान्यत्राऽपि । यत्र द्रव्यस्य भेदेन व्यपदेशोऽस्ति तत्र पृथक्त्वं, यत्राभेदेन तत्रैकत्वमिति ॥
[४८ ] द्रव्यगुणानामर्थान्तरभूतत्वे दोषोऽयम् । ज्ञानी ज्ञानाद्यद्यर्थान्तरभूतस्तदा स्वकरणांशमन्तरेण परशुरहितदेवदत्तवत्करणव्यापारासमर्थत्वादचेतयमानोऽचेतन एव स्यात् । ज्ञानञ्च यदि ज्ञानिनोऽर्थान्तरभूतं तदा तत्कॅत्रशमन्तरेण देवदत्तरहितपरशुवत्तत्कर्तृत्वव्यापारासमर्थत्वादचेतयमानमचेतन
१ यस्मिन्वस्तुनि आश्रितास्तद्र्व्यं स्यात्. २ गुणेभ्यो द्रव्यस्य भेदे सत्येकद्रव्यस्याप्यानन्त्यं प्राप्नोति । अथवा द्रव्यात्सकाशाद्यद्यन्ये भिन्ना गुणा भवन्ति तदा द्रव्यस्याभावं प्रकुर्वन्ति. ३ “अङ्गीकारोऽभ्युपगमः" इति हैमः । तेन अङ्गीक्रियते इत्यर्थः. ४ स्वकीयप्रदेशेन. ५ अत्यन्तभिन्नयोः. ६ मिलितयोः. ७ पुष्टस्य. ८ पुष्टः. ९ पुष्टस्य वा महतः. १० महान्. ११ गावः तिष्ठन्त्यत्रेति गोष्टं गवांस्थानं तस्मिन्. १२ संज्ञाम्. १३ ज्ञानं विना. १४ यथाऽग्नेर्गुणिनः सकाशादत्यन्तभिन्नः सन्नुष्णत्वलक्षणगुणोऽनेर्दहनक्रियां प्रत्ययमसमर्थः सनिश्चयेन शीतलो भवति । तथा जीवात् गुणिनः सकाशादत्यन्तभिन्नो ज्ञानगुणः पदार्थपरिच्छित्तिं प्रत्ययमसमर्थः सनियमेन जडो भवति । यथोप्णगुणादत्यन्तभिन्नः सन् वह्निर्गुणी दहनक्रियां प्रत्यसमर्थः सनिश्चयेन शीतलो भवति। तथा ज्ञानगुणादत्यन्तभिन्नः सन् जीवो गुणी पदार्थपरिच्छितिं प्रत्यसमर्थः सनिश्चयेन जडोभवति। अथ मतं । यथा भिन्नदात्रोपकरणेन देवदत्तो लावको भवति तथा भिनज्ञानेन ज्ञानी भवति इति नैव वक्तव्यं ।

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157