Book Title: Prakritshabda Sanskrute Nanartha Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 3
________________ 'अमय' इति षोढा। यथा-अमृतं पीयूषं १। अमृगो मृगरहितो देशः २। अमतं अनभीष्टं ३। अमदो मदरहितः ४। अमृजोऽशुद्ध: ५। अमयं हरिमयं ६। एवं षट् ।। 'अणह' इति चतुर्धा। यथा-अनखो नखहीनः १। अनघोऽपापः २। अनभोऽशून्यं ३। अनहो बन्धरहित: ४। एवं चत्वारः।। अट्ठविहो सज्जत्यो पंचविहो सायरत्ति सस्थित्ति । चउहा विज्ज त्ति पयं तह सज्झो होइ तब्भेओ॥ ६॥ 'सज्जो'ऽष्टधा। यथा-सों रालावृक्षः १। सज्जः प्रहः २१ सज्यं समारोपितप्रत्यञ्चं धनुः ३। साज्यं सघृतं ४ सद्यस्तत्क्षणं ५। साद्य आदियुक्त. ६। सार्य आर्ययुक्त: । षड्जः स्वरविशेषः ८॥ 'सायर' इति पञ्चधा। यथा-सादरः सगौरवः १। स्वादरः स्वादुदाता २॥ सागरोऽब्धिः ३। साकर आकरयुक्तो देशः ४। सातरः सुखदः ५ ॥ 'सत्थि' इति पञ्चधा। यथा-स्वस्तिराशीर्वचः १। शस्तिः शस्त्रागारं शुद्धं वा २ । सक्त्थिर्जानुः ३। शास्तिदण्डः ४। शास्तिः शाधिः ५॥ 'विज्ज' इति चतुर्धा। यथा -वैद्यो भिषक् १। वीर्यं बलं २। वेद्यं ज्ञेयं ३। वीज्यं निर्वाप्यं ४। .. 'सज्झ' इति चतुर्धा। यथा-सह्यः पर्वतः सहनीयो वा १। साध्यं निष्पाद्यं २ । सह्यः सप्रात: ३। साहाय्यं सहायित्वं ४॥ इति तुर्यगाथा पर्यायाः। णायं अहयं सवहं अहिमयरं तह सहाए संजुत्तं। पंच वि पंच पयारा नायव्वा सत्थकुसलेहिं ।।७॥ एते 'णाया' दि पञ्चापि पृथक् पृथक् पञ्चार्थाः। यथा-नाक: स्वर्ग: १। नागः साधनेकार्थ: २। नादः शब्दः ३। न्यायो नीति: ४। ज्ञातमुदाहरणं अवगतं वा ५ ।। "अहयं ' पञ्चधा। अहयोऽनश्व: १। अहतोऽप्रहतः २। अथ चेत्यानन्तर्यार्थमयं ३। अभयो निर्भयोऽपि ४। अभगोऽयोनिः ५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8