Book Title: Prakritshabda Sanskrute Nanartha
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
Catalog link: https://jainqq.org/explore/229355/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ प्राकृतशब्दाः संस्कृते नानार्थाः ॥ __ -सं. पं. शीलचन्द्रविजय गणि छाणीना प्र.श्री कान्तिविजयजी-शास्त्रसंग्रहमां क्र. ७१३नी प्रति, नामे 'प्राकृत शब्दोना संस्कृत अर्थ' एवी छे. २ पत्र छे. संभवतः १७मा शतकनी छे. मूल १४ प्राकृत गाथाओ छे, ते पर संस्कृत विवरण छे. मूळ बीजी गाथाना "निन्हणकइणा भणिज्जंतं" ए सन्दर्भ जोतां 'निन्हण' नामे कोई कवि आ कृतिना कर्ता जणाय छे. आथी विशेष परिचय प्राप्त नथी. ६६ प्राकृत शब्दोना संस्कृतअनेकार्थो आमां कर्ताए वर्णव्या छे, जे प्रारंभिक अध्येताओने तेमज रचयिता अभ्यासुओने उपयोगी थई पडे तेम छे. प्राकृतशब्दाः संस्कृते नानार्थाः ॥ इक्कम्मि पए पयडत्थसंगए बहुलअत्थसंदोहं। अप्पम्मि व अप्पाणं पिच्छंती भाई जयइ ॥ १ ॥ इक्कं पाययसदं सक्यभेएण बहुविहवियप्पं । निसुणंतु सुअणसत्था ! निन्हणकइणा भणिज्जंतं ॥ २॥ मुणह पउत्तं एआरहेहि अहरं च पंचभेएण। अलं चिअ पंचविहं सत्तासं छव्विहं होइ॥ ३॥ अत्र प्राकृते 'पउत्त' इति शब्दस्य संस्कृतेन व्याख्यायमानस्यैकादशार्था भवन्ति। यथा-प्रयुक्तं प्रेरितं १। प्रयुक्तः प्रमोहित:२। प्रवुप्तो मन्दः ३। प्रगुप्तोऽविज्ञातस्वरूपः ४। प्रकुसोऽतिशयेन कोपाविष्टः ५। प्रवृत्तः कर्तुं प्रस्तुतः ६। प्रोक्तो भणितः ७। प्रपुत्रः पुत्रपुत्रः ८। पदोक्तः पदकथितोऽर्थः ९ । पयोक्तः पयसा मिश्रित: १०। प्रोप्तः सूत्रादिविद्धो हारादि: ११ । एवमेकादशार्थाः 'पउत्त' शब्दस्य॥ तथा 'अहर' इति पञ्चधा। यथा -अधर ओष्ठाद्यनेकार्थः१ । अगृहो गृहरहित:२। अभरो भररहित: ३। अहरं अमहेश्वरं ४। अखरः कोमलः, अरासभः अपटुर्वा इत्ययं पञ्चप्रकारः॥ 'अउलः' पञ्चधा । यथा-अतुलोऽपरिमाणः १ । अकुलः कुलरहित: २१ अगुलः इक्षुविकाराभाव: ३। अपुलोऽमहान् ४। अचुलोऽस्निग्धः ५। Page #2 -------------------------------------------------------------------------- ________________ (५) एवं 'सत्तास' इति षोढा। यथा -सत्रासः सभयः १। सप्ताश्वः सूर्यः २। सत्त्वाशो जीवादनः ३। शक्ता श्वो रथ: ४। शप्ताश आक्रुष्टाभिलाष: ५। सत्त्वासः शूरः ६। एते षट्।। इति प्रथमगाथार्थः॥ सयलो अट्टविहाणो सत्तसु भेएसु पयडिओ सवओ। पययत्ति सत्तभेओ पंचसु भेएसु सुइ सद्दो॥ ४॥ 'सयल' इत्ययं संस्कृतेनाष्टधा। यथा-शकलः खण्डः १। सकलं समग्रं २। सदलः सपत्रः सकटको वा ३। सजलं सनीरं ४। सतलं साधारं ५। सचलं सकम्पं ६। सगलः सकण्ठः ७। स्वक्ल आत्मवर्गग्राहक: ८ इत्यष्टौ । 'सवय' इति सप्तधा। यथा -स्वपदं स्वस्थानं १। अवको दाता २। सव्रतः सानुष्ठानः ३। सव्रजः सगोकुलः ४। सवया वृद्धः समानो वा ५। सवचा वाग्मी ६ । सबको बक्युतः ७। एते सप्त ।। 'पयय' इति सप्तधा। यथा-पयोज कमलं १। पयोदो मेघः २। पयोगा नदी ३। पतग: पक्षी ४। पदगः पदातिः ५ । प्रकृतं प्रस्तुतं ६। प्रगतः प्रचलितः ७। एते सप्त। 'सुइ' इति पञ्चधा । यथा - श्रुतिर्वेदाद्यनेकार्थः ११ श्रुतिः प्रवाहः २१ शुचिराषाढाद्यनेकार्थः ३। शुदिः शुक्लपक्षो लोकप्रसिद्धः ४1 शुचिः स्नानं ५। एते । पञ्च॥ 'सुरयण' सद्दो पञ्चसु, छसु भाणिओ अप्पमाणसहो य। तह तब्भेओ अमओ चउसुं अणहत्ति भणियव्वो ॥ ५ ॥ अत्र 'सुरयण ' इति पञ्चधा भवति । यथा-सुरगणो देवसमुदायः १। सुरदनः सुदन्तः २। सुरचनं विशिष्टरचनायुक्तं वस्तु ३ । सुरत्रं पद्मरागादि दोषरहितं ४। सुरजनं शोभनरागः ५। एते पञ्च॥ 'अप्पमाण' इति षोढा । यथा-अप्रमाणोऽमर्यादाद्यनेकार्थः १। अल्पमानः स्वल्पाहंकारः २। आत्ममान आत्मतुल्यः ३| आप्यमानः प्राप्यमानः ४। अर्घ्यमाणो ढौक्यमानः ५। अप्रमाज्ञो महच्छासनः ६। Page #3 -------------------------------------------------------------------------- ________________ 'अमय' इति षोढा। यथा-अमृतं पीयूषं १। अमृगो मृगरहितो देशः २। अमतं अनभीष्टं ३। अमदो मदरहितः ४। अमृजोऽशुद्ध: ५। अमयं हरिमयं ६। एवं षट् ।। 'अणह' इति चतुर्धा। यथा-अनखो नखहीनः १। अनघोऽपापः २। अनभोऽशून्यं ३। अनहो बन्धरहित: ४। एवं चत्वारः।। अट्ठविहो सज्जत्यो पंचविहो सायरत्ति सस्थित्ति । चउहा विज्ज त्ति पयं तह सज्झो होइ तब्भेओ॥ ६॥ 'सज्जो'ऽष्टधा। यथा-सों रालावृक्षः १। सज्जः प्रहः २१ सज्यं समारोपितप्रत्यञ्चं धनुः ३। साज्यं सघृतं ४ सद्यस्तत्क्षणं ५। साद्य आदियुक्त. ६। सार्य आर्ययुक्त: । षड्जः स्वरविशेषः ८॥ 'सायर' इति पञ्चधा। यथा-सादरः सगौरवः १। स्वादरः स्वादुदाता २॥ सागरोऽब्धिः ३। साकर आकरयुक्तो देशः ४। सातरः सुखदः ५ ॥ 'सत्थि' इति पञ्चधा। यथा-स्वस्तिराशीर्वचः १। शस्तिः शस्त्रागारं शुद्धं वा २ । सक्त्थिर्जानुः ३। शास्तिदण्डः ४। शास्तिः शाधिः ५॥ 'विज्ज' इति चतुर्धा। यथा -वैद्यो भिषक् १। वीर्यं बलं २। वेद्यं ज्ञेयं ३। वीज्यं निर्वाप्यं ४। .. 'सज्झ' इति चतुर्धा। यथा-सह्यः पर्वतः सहनीयो वा १। साध्यं निष्पाद्यं २ । सह्यः सप्रात: ३। साहाय्यं सहायित्वं ४॥ इति तुर्यगाथा पर्यायाः। णायं अहयं सवहं अहिमयरं तह सहाए संजुत्तं। पंच वि पंच पयारा नायव्वा सत्थकुसलेहिं ।।७॥ एते 'णाया' दि पञ्चापि पृथक् पृथक् पञ्चार्थाः। यथा-नाक: स्वर्ग: १। नागः साधनेकार्थ: २। नादः शब्दः ३। न्यायो नीति: ४। ज्ञातमुदाहरणं अवगतं वा ५ ।। "अहयं ' पञ्चधा। अहयोऽनश्व: १। अहतोऽप्रहतः २। अथ चेत्यानन्तर्यार्थमयं ३। अभयो निर्भयोऽपि ४। अभगोऽयोनिः ५॥ Page #4 -------------------------------------------------------------------------- ________________ (७) "सवह' इति पञ्चधा। यथा-स्वपत स्वापं कुस्त ११ शपथः प्रतिज्ञा २। सपथः समार्गः ३। सवहः सवाहन: ४। स्ववध आत्मवधः ५॥ 'अहिमयरः' पञ्चार्थो यथा-अधिमकर: समुद्रः १। अहिमकरः सूर्यः २ । अहिमचरः सर्पः ३। अभिमतरोऽभीष्टदाता ४। अहिमतरोऽत्युष्ण: ५॥ 'सहा' इत्ययमपि पञ्चाओं यथा-स्वाभा स्वदीप्ति: १। सभा परिषत् २ । सखा मित्रं ३। स्वधा पितृवधः ४। स्वहा आत्मघातक: ५।। इति पञ्चमगाथार्थः।। आसासत्ति चउद्धा आयासं मुणह तह य तब्भेयं । पव्वइओ तह य च्चिय भणिओ कुहरत्ति पंचविहो ॥ ८॥ 'आसासा' शब्दश्चतुर्धा। यथा-आश्वासः संधारणं १। आशाशं दिशिदिशि २ । आश्वास्यं हयमुखं ३। आशास्यमाशंसनीयं ४॥ 'आयास' श्चतुर्धा। यथा-आकाशं खं १। आयासः खेदः २। आयाशो आयभोक्ता ३। आदासं दासपर्यन्तं ४॥ 'पव्वइय' श्चतुर्धा। यथा -पार्वतिक: पर्वतनिवासी लोक: १। प्रवजितो व्रती २। पर्व इतः सन्धिगत: ३। पर्वदिनो ग्रन्थिच्छित्रः ४॥ 'कुहर' इति पञ्चधा। यथा-कुधरः पर्वताद्यनेकधा १। कुगृहः कुत्सितगृहः २। कुहरो दरी ३। कुभरः पृथ्वीधरः ४। कुखर ईषत्कर्कशरूपः विरूपगर्दभो वा ५। षष्ठगाथापर्यायाः॥ कइलास कव्वफलिहा वास अहोवाह पन्न सउणा य। कीलालायणसहिआ एए अ चउव्विहा हुंति॥ 'कइलास' श्चतुर्धा। यथा-कैलाशो गिरिः १। कविलासं कवीनां लसनं २ । कपिलाश: पिङ्गलाशो देशः ३। कपिलासः कपीनां लसनं ४॥ ___ 'काव्यं' कवेर्भावः कर्म वा १। ऋव्यमामिषं २। क[इ] व ब्रह्म यथा ३। कव्यं पैत्रं कर्म ४। 'फलिह' श्चतुर्धा। यथा-स्फटिक: १। परिखा खातिका २। परिधः ३ । फलिहो रत्नविशेषः ४॥ Page #5 -------------------------------------------------------------------------- ________________ (८) 'व्यासो'ऽपि चतुर्धा। यथा-व्यासो मुनिः १ । वासो गृहं २। वासो वस्त्रं ३ । व्याशो नष्टदिक् ४॥ 'अहो'ऽपि चतुर्धा। यथा-अहो आश्चर्ये ११ अहर्दिनं २। अथो आनन्तर्ये ३ । अधस्तलपर्यायः ४॥ 'वाहो'ऽपि चतुर्धा। यथा-वाहोऽश्वाद्यनेकार्थ १ । व्याधः २। बाष्पो अश्रुः ३ । बाधः पीडा ४॥ 'पत्रो'ऽपि चतुर्धा। यथा-पर्णं पत्रं १। पण्यं विक्रेयद्रव्यं २। पण्या वेश्या ३ । प्रज्ञा बुद्धि ४॥ __ 'सउणो'ऽपि चतुर्धा। यथा-सगुणो गुणयुक्तः १ । शकुन: पक्षी २। सपुन:सपुरुषः ३। पुनः पुनः स तु न । न पुनर्भवतीत्यर्थः ४॥ 'कोलालाअण' इति चतुर्धा। यथा-क्रीडालागनो रतिविषयोत्पादयिता १। कीलालायनो मद्यमार्गो संधिरमार्गो वार। कीलालादनो राक्षस: ३। कीलालापणं मद्यकरहट्टं ४॥ इति ससमगाथापर्यायाः॥ सवणो चउप्पयारो विणय (विअण)त्ति मुहेण छव्विह वियप्पो । पंचविह सुत्तसद्दो तिहि भणिओ कईहिं वच्छे अ॥१०॥ 'सवणो' पि चतुर्धा । यथा-सव्रण: सक्षतः १। सवनं यज्ञाद्यनेकथा २ श्रवणं श्रोत्राद्यनेकार्थः ३। स्वर्ण निद्रा ४॥ 'विअणः' षोढा। यथा-व्यजनं तालवृन्तं १। विजनं एकान्तः। विगणः पक्षवर्जः ३। द्विगुणः गुणद्वयं ४। वियणा वेदना ५। द्विजन: जनद्वययुक्तः॥ ६ ॥ 'सुत्त' इति पञ्चधा। यथा -सूत्रं तन्त्राद्यनेकार्थं १। सुप्तः २। सूक्तं ३। सुक्तं मद्यविशेषः ४। सूप्तं सुवापं क्षेत्रं ५॥ 'वच्छ' स्त्रिधा। यथा-वृक्षः १। वक्षः २१ वत्सोऽपत्यं वा ज्योति:प्रसिद्धो वत्सस्तारः ३॥ कोसिअ-कणि कलिआ कुच्छेअय-कइपहू असप्पत्ता। चित्तयरो अहिअजुओ इक्विको चउविहो सद्दो॥ ११॥ Page #6 -------------------------------------------------------------------------- ________________ 'कोसिम' इत्याद्या वेदार्थाः॥ 'कोसिअ' क्रोत्सित आक्रुष्टः १। कौशिक उलूकादिः २ । कोऽशितः को भक्षितः कोऽतीक्ष्णो वा ३ ! कोषितो जलशायी ४ ।। 'कणय' श्चतुर्धा । यथा -कनकं १ । कणय आयुधविशेषः२ । कनदः कुत्सितनदः ३। कणदः कणदाता ४॥ 'कलिका' कुड्मलं १। कलिता लक्षिता २। कलिजा कलौ जाता ३ । कलिदा युद्धदायिनी ४॥ 'कुच्छेअ'[य] चतु:प्रकारो यथा-कौक्षेयक: खड्गः १। कुच्छेदजः भूविनाशोत्पन्नः २। कूच्छेदको भूविनाशकरः ३ । कुच्छेदगो धरां गतः ४ ॥ ___ 'कइ' चतुर्धा। यथा-कवि १ । कति संख्यावाची २। कविः धरैडक: ३। कपिर्वानरः ४॥ 'पहूअ' श्चतुर्धा । यथा -प्रधूत:-प्रकम्पित: १। प्रभूतं बहु ३। प्रधूपो यक्षधूपादिः ३। प्रधूय इति क्त्वान्तः ४॥ 'सपत्त' श्चतुर्धा। यथा -सपत्रः पर्णयुक्तः सवाहनो वा १। सपात्रः सभाण्डः २। स्वप्राप्तः स्वयंग्राह: ३। सर्पत्र उरगत्राता ४! "चित्तयर' चित्रकर: चित्राम्बुदो वा १। चित्तचरः कामः २। चित्तदरो मनोभयं ३। चित्रगरो चित्रविषं ४॥ .. 'अहिअ' इति अधिक: १। अहितो विष्णुहितः शत्रुः २। अभिकः कामी ३। अहिजः सर्पजातः ४॥ पंच पओस-निसायर-गयाहरा पउहरो अ तब्भेओ। पाययसद्दो अटुसु पहाअरा इत्थ छब्भेया ॥ १२ ॥ 'पओसः' पञ्चधा। यथा-प्रदोषो रजनीमुखादिः १। प्रतोषः परिपुष्टिः २ । प्रोश उत्कृष्टभाण्डागारादिः ३। प्रपोष उत्कृष्टपृष्टिः ४। प्रवोष उत्कृष्टपानं ५ ॥ 'निसायरः' पञ्चधा। यथा-निशाकरश्चन्द्रो हरिद्राको हरिद्रोत्पादयिता वा १। निशाचरो रात्रिचरो राक्षसो वा रा निशातरो रात्रौ तरणं ३। निशागरो हरिद्राक्षोरः (दः) ४। निशादरो रात्रिभयं ५॥ Page #7 -------------------------------------------------------------------------- ________________ (१०) 'गयाहरः' पञ्चधा। यथा-गदाधरः १ । गदाहरो गदाचौरः २ । गताधरो विगतौष्ठः ३। गजाखरो हस्तिकोमल: ४। गवा वृषभेन आ समन्तात् चरतीति गवाचरः, ईश्वरो वा ५॥ 'पओहर:' पञ्चधा। पयोधरो मेघादिः १। पयोहरो वडवाग्निरगस्तिर्वा २ . पयोभरो जलौधः ३। पयोगृहं समुद्रादिः ४। प्रगोखरं शोभन गोरासभं ५ ॥ 'पाययो'ऽष्टधा। यथा --प्राकृत इतरजन: १। प्र(प्रा)गतं वर्य(ा)गमनं २। पातकं अधर्मः ३। पातगः शीघ्रगामी ४ पादगः पदात्यादिः ५। प्रापदः प्रकृष्टज्ञानदः ६। पातजं श्रमः ७। पातयेति क्रिया ८॥ 'परयारः' षडर्थो यथा-परदारः परभार्यः कापुरुषः २। परकारः परप्रेरक: २ । परचार: परगतिः ३। परतारः परोद्धारक: ४। परजार: ५। परगारः परनिगरणं ६ ।। 'पहायरः' षोढा। यथा-प्रभाकरो रविः १। प्रभाचरो ज्योतिर्गमनं २। प्रभातरः प्रभातदाता सूर्यादि: ३। प्रभाजरः कान्त्या जीर्ण: ४। प्रभादरः कान्तिभयं ५ । प्रभातरः प्रहारदः ६॥ सरयं सयणं सणयं गयणयरं सहिअ तहय सुव्वत्तं । मयणाही सामलया अट्ठासु इ(वि) पंचहा सद्दो ॥१३॥ 'सरया'द्या पञ्चार्थाः। यथा-शरहतुः १। शरदः शरखण्डकः शरप्रदः २। सरदः सदन्तः ३। सरको मद्यं ४। सरयः सवेगः ५। 'सयणः' पञ्चधा । शयनं पर्यादिः १। सजनो जनसहित: २। सदनं गृहं ३ । सकणं कणसहितं सशब्दं वा ४। सगणः ससमूहः ५॥ 'सणयः' पञ्चधा। सनयो नयसहितः १। सनगः सपर्वतः सवृक्षो वा २। सनतः ३। स्वनदः स्वशब्द: ४। सनक: पूज्यनरः ५॥ 'गयणयरः' पञ्चधा। गगनचरः सूर्यादिः १ । गतनगरो विपुरः २। गदनतरं प्रकृष्टवचः ३। गतनयरो गतन्यायप्रदः ४। गगनकरः आकाशकरः ५। 'सहियः' पञ्चधा। सहितो हितयुक्त: १। सखितः सख्युः २। सखिदः सखिप्रदः ३। स्वहित आत्महितः ४। सखिगो मित्रसहगामी ५ ॥ Page #8 -------------------------------------------------------------------------- ________________ (11) 'सुव्वत्तं' पञ्चधा। सुवार्ता शोभनकथा 1 / सुव्यक्ता सुप्रकटा 2 / सुव्याप्ता सुक्रान्ता 3 / सुव्यात्ता सुप्रसारिता 4 / शुल्बत्रा ताम्ररक्षक: 5 / 'मयणाही' पञ्चधा / मृगनाभी 1 / मदनाभी कामाभय:२। मदनाधिः कामचिन्ता 3 / मृतनाभिर्मृततुन्दं 4 / मदनाही कामसपौ 5 / 'सामलया' पञ्चार्थः / श्यामलता कृष्णलता कृष्णता वा 1 / सामलका आमलकसहिता 2 / सामलया देवविशेषप्रयोगा नीतिप्रयोगा वा 3 / सामलता प्रसिद्धा 4 / सा मलदा मलं ददाति खण्डयति वा 5 // सावय सद्दो पंचसु तब्भेओ सच्छरायणो पाओ। तह सुअ सरोअआ वि हु नायव्वा सत्थकुसलेहि। प्राकृते 'सावयः' पञ्चार्थः। श्वापदोऽरण्यजीवः 1 / श्रावको जिनभक्तः श्रोता वा 21 शापद आक्रोशदाता 3 / सापगः सदापानीयो देश: सनदिको वा 4 / / 'सच्छरायणः 'पञ्चधा। साप्सरोगणः -अप्सरोगणसहितः 1 / स्वाक्षरोगणः स्वकेन्द्रियदीपन: 21 साक्षरायनः पण्डितगमन: 3 / स्वच्छरदनो-स्वच्छदन्तसमूहः 4 / स्पप्सरायनं देवमार्ग: 5 // 'पायः' पञ्चधा / प्रायो बाहुल्यं 1 / पादोंऽहिश्चतुर्थांशो वा 2 / पात: पतनं 3 / पाक: पचनपन्नादेः 4 / पापः पाप्मा नर: 5 // 'सुअ' पञ्चधा। यथा-सुतः पुत्रः 1 / शुकः कीरादिः 21 श्रुतं शास्त्रं कर्णाभ्यां पूर्वश्रवणं 3 / शुक् शोक: 4 / सुदः सुष्ठु दाता 5 // ___ 'सरोअअ' पञ्चधा। सरोजक कमलं 1 / सरोगो रोगी तडाकगो वा 2 / सरोदयो नाडीवायुप्रचार: 3 / सरोपकं काण्डजलं 4 / सरोचको संचिकरः पदार्थ: 5 // इति प्राकृतशब्दाः संस्कृते नानार्थाः //